SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. Tale vii: Lion and hare. Jain Education International पुनश् च । 6 1 सर्वांशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते । मूढाः पापानि कुर्वते ॥ १७५॥ तद् एतज् ज्ञात्वा *मास्मत्कुलोत्सादनं कर्तुम् अर्हसि । यत्कारणम्' वयम् एव स्वामिन एकैकं वनचरं वारकेण स्थानस्थितस्यै वाहा - रार्थं प्रत्यहं प्रेषयिष्यामः । एवं सति देवकीयवृत्तेर् अस्मज्जातेश् च विच्छेदो न भवति । तद् एष राजधर्मो ऽनुष्ठीयताम् । उक्तं च । शनैः शनैश् च यो राष्ट्रम् ' उपभुङ्क्ते यथाबलम् । रसायनम् इव क्ष्मापः स पुष्टिं परमां व्रजेत् ॥ १७६ ॥ अजा इव प्रजा मोहाद् । यो हन्यात् पृथिवीपतिः । तस्यैका जायते तृप्तिर् न द्वितीया कथंचन ॥ १७७॥ फलार्थी नृपतिर् लोकान् । पालयेद् यत्नम् आस्थितः । दानमानादितोयेन । मालाकारो ऽङ्कुरान् इव ॥१७८॥ यथा गौर् दुह्यते काले पाल्यते च तथा प्रजाः । सिच्यते चीयते चैव ' लता पुष्पफलप्रदा ॥ १७९॥ नृपदीपो धनस्नेहं । प्रजाभ्यः संगृहन् अपि । अन्तरस्यैर् गुणैः शुभ्रैर् ' लक्ष्यते नैव केनचित् ॥१८०॥ यथा बीजाङ्कुरः सूक्ष्मः । प्रयत्नेनाभिरक्षितः । " फलप्रदो भवेत् काले ' तल् लोकः सुरक्षितः ॥१৮१॥ हिरण्यं धान्यरत्नानि । पानानि विविधानि च । तथान्यद् अपि यत् किंचित् । प्रजाभ्यः स्यान् महीपतेः ॥ १२॥ 1 लोकानुग्रहकर्तारः । प्रवर्धन्ते महेश्वराः । लोकानां संक्षयाच् चैव । क्षयं यान्ति न संशयः ॥ १४३ ॥ अथ तद्वचः समाकर्ण्य मन्दमतिर् आह । अहो ' सत्यम् अभिहितं G । 41 For Private & Personal Use Only 3 9 12 15 18 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy