SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS; 40 Tale v: Crows and serpent. Frame-story. Tale vii: Lion and bare. कोटरे तत् कनकसूत्रं निक्षिप्य सुदूरतरम अवस्थिता । अथ राजपुरुषा यावत तं वृक्षम आरोहन्ति । तावत कोटरगतः कृष्णसर्पः प्रसारितभोग आस्ते । अथ तं लगुड प्रहारेर् हत्वा कनकसूत्रम् । आदाय याभिलषितं स्थानं गताः । वायसदंपती च ततः परं सुखेन वसतः ॥ अतो ऽहं ब्रवीमि । उपायेन हि तत् कुर्यात् । इति । तथा च । उपेक्षितः क्षीणबलो ऽपि शत्रुः प्रमाददोषात पुरुषैर् मदान्धैः । साध्यो ऽपि भूत्वा प्रथमं ततो ऽसाव असाध्यतां व्याधिर व प्रयाति ॥१७१॥ तन न किंचिद् दह बुद्धिमताम् असाध्यम् अस्ति । इति । उक्तं च । यतः । यस्य बुद्धिर् बलं तस्य । निर्बुद्धेस तु कुतो बलम् । वने सिंहो मदोन्मत्तः । शशकेन निपातितः ॥१७॥ करटक आह । कथम् एतत् । दमनकः कथयति । upa ॥ कथा ७ ॥ अस्ति कस्मिंश्चिद् वनोद्देशे मदोन्मतो मन्दमतिनामा सिंहः । स चाजनम् एव *मृगोत्सादनं कुरुते । मृगस्य *दृष्टस्य न सहते । अथ तहनजाः सर्वे सारङ्गवराहमहिषगवयशशकादयो मिलित्वा 18 दीनानना महीतलावसक्तजानवः प्रणतशिरसः सविन यास तं मृगपति विज्ञपयितुम आरब्धाः। अलम् । देव । परलोकविरुवेनातिनृशंसेन *निष्कारणसर्वसत्वोत्सादनकर्मणा कृतेन । श्रूयते च। 1 एकस्य जन्मनो ऽर्थे । मूढाः कुर्वन्ति यानि पापानि। जनयन्ति तानि दुःखं । तेषां जन्मान्तरसहस्रम्॥१७३॥ ar तथा। अपवादो भवेद् येन । येन विप्रत्ययो भवेत्। नरके गम्यते येन । तद् बुधः कथम् आचरेत् ॥१७४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy