SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. 39 Tale vi: Heron, fishes, and crab. Tale v: Crows and serpent. तथा। तावद् भयस्य भेतव्यं । यावद् भयम् अनागतम्। आगतं तु भयं दृष्ट्वा । प्रहर्तव्यम अशङ्कितः ॥१७०॥ अतो यावद् एष माम् अत्र न क्षिपति । तावद् एव चतुर्भिर् : अपि विषाणगिर ग्रीवायां गृहामि । अथ तथापि कृते गन्तुम आरब्धो बकः । तथापि मौात् कुलीरसंदंशयहणप्रतिविधानम् अजान *शिरश्छेदम अवाप्तवान् । ___कुलीरो ऽपि मृणालसदृशीं बकग्रीवां गृहीत्वा शनैः शनैर् मस्यौन्तिकम् एव तत्रैव सरस्य आगतः । तैश् चाभिहितः । भ्रातः । कस्मात समागतः । इति । अथासौ तच्छिरश्चिहं दर्शयन्न आह । 9 सर्वतो ऽये नीतजलचरास तेन मिथ्यावादेन वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तन मयायुःशेषतया । विश्वस्त घातको ऽयम् । इति ज्ञात्वा तस्य ग्रीवा समानीता । तद् अलं 12 संभ्रमेण । सवैजलचराणां क्षेमं भविष्यति । इति ॥ ____ अतो ऽहं ब्रवीमि । भक्षयित्वा बहून मत्स्यान । इति । वायसः प्राह । भद्र । कथय । कथं स दुष्टसो वधम एथति । 15 इति । शृगाल आह । गच्छतु भवान किंचित् स्थानं महेश्वराधिष्ठितम् । तस्मात् कस्यापि धनिनः कनकसूचं हारं वा प्रमादिनो गृहीत्वा तच प्रक्षिपतु । यथा सर्पम् तद्हणेन वध्यते। 18 ____ अथ काकः काकी च तन्क्षणाद् आत्मछयोत्पतितौ। ततश् च काकी किंचित् सरः प्राप्य यावत् पश्यति । तन्मध्ये कस्यचिद् राज्ञो ऽन्तःपुरं जलासन्नन्यस्त कनकसूत्रमुक्ताहारवस्त्राभरणं जलक्रीडां 21 करोति । अथ सा वायसी कनकसूत्रम् एकम् आदाय स्ववृक्षाभि- , मुखी प्रतस्थे । ततश च कञ्चुकिनो वर्षधराश च तं नीयमानम् अवलोक्य गृहीतलगुडाः सत्वरम् अनुययुः । काक्य् अपि सर्प- 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy