________________
34
Book I. THE ESTRANGING OF FRIENDS%3
Frame-story: Lion and Bull.
स्त्रियो ऽक्षा मृगया पानं । वाक्पारुष्यं च पञ्चमम् ।
महच च दण्डपारुष्यम् । अर्थदषणम् एव च ॥१५॥ एकम् एवेदं व्यसनं प्रसङ्गाख्यं सप्ताङ्गम् । इति । करटकः पृच्छति । किम् एकम् एवंदं । व्यसनम् । आहो *स्विद् अन्यान्य अपि भवन्ति ।
दमनकः कथयति। नन्व् इह पञ्च मूलव्यसनानि । करटक आह । कस् तेषां विशेषः। सो ऽब्रवीत्। अभावः प्रदोषः प्रसङ्गः पीडनं गुणप्रतिलोमकं चेति । तत्र प्रथमं तावत् 6 स्वाम्यमात्यजनपददुर्गकोशदण्डमित्राणाम एकतमस्याप्य अभावे ऽभावाख्यम् अवगन्तव्यम्। यदा तु बाह्यप्रकृतयो ऽन्तःप्रकृतयो वा प्रत्येकशो युगपद् वा प्रकुप्यन्ति । तद् व्यसनं प्रदोष इति । प्रसङ्गः पूर्वम् उक्त एव। स्त्रियोऽचा मृगया पानम् । इत्यादि । तत्र । स्त्रियो १
चा मृगया पानम् । रति कामजी वर्गः। वाक्पारुष्यादिः कोपजो वर्गः। तच कामजर व्यवहितः कोपजेषु प्रवर्तते । सुबोध एव कामजो वर्गः । कोपजस् तु विविधो ऽपि विशेषवचनेनोच्यते । पराभिद्रोहबुद्धेर् असमीक्षितम् असद्दोषत्रावणं वाक्पारष्यम् । 12 निर्दयो *वधबन्धच्छेदविधिर अनुचितो दण्डपारष्यम् । निरनुक्रोशतो वित्तलोभी
पारुष्यम् । एवं सप्तधा प्रसङ्गव्यसनं भवति । पीडनं पुनर् अष्टधा देवाग्न्युदकव्याधिमरकविद्रवदुर्भिपासुरीवृष्टिभिर् भवति। अतिवृष्टिर् एवासुरीवृष्टिर् उच्यते । तद् एतद् 15 व्यसनं पीडनं नाम मन्तव्यम् । अथ गुणप्रतिलोमकम् उद्यते । यदा संधिविग्रहयानासनसंश्रयद्वैधीभावानां षसां गुणानां प्रातिलोम्येन वर्तते । संधी प्राप्त विग्रहम् । विग्रह च संधिं करोति । एवं शेषेष्व अपि गुणेषु प्रातिलोम्येन यदा वर्तते । तद् व्यसनं प्रतिलो- 18 मकम् इति।
तद् अयम् अस्मत्स्वामी पिङ्गलको मुख्यतमे भावव्यसने वर्तते । यतः संजीवकेन वशीकृतः सन्न् अमात्वादिषु षट्सु गुणेषु चैकतमस्यापि चिन्तां न करोति । शष्पभोजि- 21 धर्मकर्मस्व एव प्रायेण वर्तते । तत् किंबहुना प्रलपितेन । सर्वथा पिङ्गलकः संजीवकाद् वियोज्य एव । इति। यतः प्रदीपाभावात् प्रकाशामावः।
करटक आह । असमों भवान् । तत् कथं वियोजयिष्यति । सो ब्रवीत । भढ । 24 युक्तम् इदम्।
उपायेन हि तत् कुर्याद् । यन् न शक्यं पराक्रमः।
काक्या कनकसूत्रेण । कृष्णसर्पो निपातितः । १५९॥ करटक आह । कथम् एतत् । सो ऽब्रवीत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org