________________
33
OR, THE LION AND THE BULL. Book I. Tale ivc: Cuckold weaver.
Frame-story.
अनु च । - प्रसन्नवदनो हृष्टः । स्पष्टो वाचा सरोषदक।
सभायां वक्ति सामर्षः । सावष्टम्भो नरः शुचिः ॥१५४॥ नद् एष दुष्टचारित्रो दृश्यते । स्त्रीधर्षणाद् वध्य इति शूलायाम आरोप्यताम् । इति ।
अथ तं वध्यस्थानं नीयमानम आलोक्य देवशर्मा तान 6 धर्माधिकृतान गत्वा प्रोवाच । भोः । अन्यायेनैष वराको नापितो वध्यते साधुसमाचारः। तच छूयतां मम वाक्यम्।
जम्बुको हुडयुद्धेन । वयं चाषाढभूतिना।
दूतिका परकार्येण । यो दोषाः स्वयंकृताः ॥१५५॥ अथ ते सभ्यास तम ऊचुः । भो भगवन् । कथम् एतत् । ततश् च देवशर्मा नेषां *वत्तान्तबयम अपि सविस्तरं न्यवेदयत् । अथ 12 तच् छ्रुत्वा ते सर्वे विस्मितमनसो नापितं विमुव्यवं प्रोचुः ।
अवध्यो ब्राह्मणो बालः । स्त्री तपस्वी *च रोगभाक् । *विहिता व्यङ्गिता तेषाम् । अपराधे गरीयसि ॥१५६॥ 15 तद् अस्याः स्वकर्मवशाद एव नासिकाछेदः संवृत्तः । ततो राजनिग्रहः कर्णच्छेदः कार्यः । तथानुष्ठिते देवशर्मापि दृष्टान्तहयेन स्वहृदयं संस्थाप्य स्वकीयमठायतनम् अगमत् ॥ अतो ऽहं ब्रवीमि। जम्बुको हुडयुद्धेन । इत्यादि। करटक आह । अथैवंविधे व्यतिकरे किं कर्तव्यम् आवयोः। दमनको ब्रवीत् । एवंविधेऽपि समये मम बुद्धिस्फुरणं भविष्यति । येन संजीवकं प्रभोर विश्लेषयिष्यामि । अपरं च । अस्मत्स्वामी महति व्यसने वर्तते 21 *पिङ्गलकः । यतः।
___ व्यसनं हि महाराज्ञो । मोहात् संप्रतिपद्यते।
विधिना शास्त्रदृष्टेन । मृत्यैर् वार्यः प्रयत्नतः ॥१५७ ॥ करटक आह । कस्मिन् व्यसने वर्तते स्वामी पिङ्गलकः । दमनक आह । इह हि सप्त व्यसनानि भवन्ति । तथा हि।
18
24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org