________________
Book I. THE ESTRANGING OF FRIENDS:
32
Tale ive: Cuckold weaver.
काम । सा च दूतिका छिन्ननासिका स्वगृहं गत्वा चिन्तयाम् आस । किम् इदानों कर्तव्यम् । कथम् एतन महच् छिद्रम आवरणीयम्। ___अथैवं चिन्तयन्यास तस्या भर्ता राजकुले कार्यवशात् पर्युषितः । प्रत्यूषे च गृहम् अभ्येत्य द्वारि स्थितोऽपि विविधपौरकृत्योत्सुकतया ताम् आह । भद्रे । शीघ्रम् आनीयतां छुरभाण्डम् । येन पौरकर्मकरणाय गच्छामि । सापि च्छिन्ननासिका प्रत्युत्पन्नमतिर् गृहाभ्यन्तरस्थितेव तदभिमुखं शुरम् एकं प्रेषयाम आस । नापितो ऽपि समस्तक्षरभाण्डासमर्पणात क्रोधाविष्टस् तस्याः ५ संमुखम् एव शुरं प्रक्षिप्तवान् । अथास्मिन व्यतिकरे सा दुष्टोवौं बाहू विधाय *फूत्कर्तुमना गृहान निश्चक्राम । अहो । पापेनानेन मम सदाचारवर्तिन्याः । पश्यत । नासिकाछेदो विहितः । तत् 12 परिचायध्वम्।
एतस्मिन्न अन्तरे राजपुरुषाः समभ्येत्य तं नापितं दृढमहारैर् जर्जरीकृत्य दृढबन्धनेन बड्डा तया छिन्ननासिकया सह धर्माधिक- 15 रणस्थानं नीतवन्तः । ततः स पृष्टश चाधिकरणिकैः । किम इदं वैशसं स्वदारेषु कृतम् । अथासौ विस्मयमूढमतिर् यदा नोतरं प्रयच्छति । तदा ते सभासदः शास्त्रानुगतम् ऊचुः ।
18 भिन्नस्वरमुखवर्णः । शङ्कितदृष्टिः समुत्पतिततेजाः।
भवति हि पापं कृत्वा' स्वकर्मसंत्रासितः पुरुषः॥१५१॥ ar तथा च। आयाति स्खलितैः पादैर् । मुखवैवर्ण्यसंयुतः। 1
ललाटस्वेदभाग् भूरिगद्दं भाषते वचः ॥१५२॥ *कम्पमानम् अधो ऽवेक्षी। पापं प्राप्तः सदा नरः। तस्माद् यत्नात् परिज्ञेयश चिहैर् एतैर् विचक्षणैः ॥१५३॥ 4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org