SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. Tale iv c: Cuckold weaver. मधु तिष्ठति वाचि योषितां हृदये हालहलं महद् विषम् । अत एव निपीयते ऽधरो हृदयं मुष्टिभिर् एव ताड्यते ॥ १४५ ॥ Jain Education International viyo आवर्तः संशयानाम् अविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतगृहं क्षेत्रम् अप्रत्ययानाम् । दुर्ग्राह्यं यन् महद्भिर् नरवरवृषभैः सर्वमायाकर राडं स्त्रीयन्त्रं केन लोके विषम् अमृतयुतं धर्मनाशाय सृष्टम् ॥१४६॥ कार्कश्यं स्तनयोर् दृशोस् तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कचसंचये च वचने मान्द्यं चिके स्थूलता । भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये rai दोषगणो गुण मृगदृशां ताः स्युः पशूनां प्रियाः ॥ १४७ ॥ sārdu 12 एता हसन्ति च रुदन्ति च कार्यहेतोर् विश्वासयन्ति च परं न च विश्वसन्ति । तस्मान् नरेश कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः ॥ १४८॥ व्याकीर्णकेसरकरालमुखा मृगेन्द्रा नागाश् च भूरिमदराजिविराजमानाः । मेधाविनश् च पुरुषाः समरेषु शूराः स्त्रीसंनिधौ परमकापुरुषा भवन्ति ॥१४९॥ For Private & Personal Use Only srag vasa तथा च । अन्तर् विषमया ह्य् एता । बहिश् चैव मनोरमाः । गुञ्जाफलसमाकारा । योषितः केन निर्मिताः ॥ १५० ॥ एवं तस्य परिव्राजकस्य चिन्तयतो निशा महता कृच्छ्रेणातिच vasa 31 3 6 9 15 18 21 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy