________________
30
Book I. THE ESTRANGING OF FRIENDS;
Tale ivc: Cuckold weaver.
.
upa
अथ बन्धुकी नापिती बन्धनान मुक्त्वा यथापूर्व भूत्वा साक्षेपम् इदम आह । धिर धिग् महामूढ । को मां महासती पतिव्रतां धर्षयितुं व्यङ्गयितुं वा समर्थः। ततः शृण्वन्तु लोकपालाः। ४
आदित्यचन्द्राव अनिलो ऽनलश च द्यौर् भूमिर् आपो हृदयं यमश् च । अहश् च रात्रिश च उभे च संध्ये धर्मो विजानाति नरस्य वृत्तम् ॥१४१॥ तद् यदि मम सतीत्वम् अस्ति । तद् एते देवा भूयो ऽपि तादृग्रूपां नासिकां कुर्वन्तु । अथवा मनसापि यदि परपुरुषो ऽभिल- " षितः । तन मां भस्मसान नयन्तु । इति । एवम् उवा भूयो ऽपि तम आह । भो दुरात्मन । पश्य । मे सतीत्वप्रभावेण तादग एव नासिका संजाता । अथोल्मुकम् आदाय यावत् पश्यति । 12 तावत् तादृग् एव नासिका रक्तप्रवाहश् च भूतले महान् दृष्टः । ततः स विस्मयमनास ताम उन्मुच्य बन्धनाच चाटुशतैः परितोषितवान।
15 देवशर्मापि तत् सर्वम् अवलोक्य विस्मितमना इदम आह।
उशना वेद यच् छास्त्रं । यच च वेद बृहस्पतिः । स्त्रीबुया न विशिष्येत । तस्माद् रक्ष्याः कथं हि ताः ॥१४२॥ 18 अनृतं साहसं माया । मूर्खत्वम् अतिलोभता। अशौचं निर्दयत्वं च । स्त्रीणां दोषाः स्वभावजाः ॥१४३॥ नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेद् बलं स्त्रीषु विवर्धमानम् । अतिप्रसक्तैः पुरुषैर् यतस् ताः क्रीडन्ति काकैर् इव लूनपक्षैः ॥१४४॥
upa 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org