SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 28 OR, THE LION AND THE BULL. Book I. Tale ivc: Cuckold weaver. अनु च। यद्य अपि न भवति दैवात् । पुमान विरूपो ऽपि बन्धुकी रहसि। भव्यम अपि तद् अपि कष्टान निजकान्तं साभजत्य एव ॥१४०॥ ur 3. साब्रवीत् । यद्य एवम् । तत् कथय । कथं गच्छामि दृढबन्धनबद्धा सती । संनिहितश् चायं पापात्मा पतिः । नापिती प्रोवाच । सखि । मदविहलो ऽयं सूर्यकरस्पृष्टः प्रबोधं यास्यति । तद् अहम् । आत्मानं तव स्थाने निधाय त्वां मुच्चामि । ततस् त्वं देवदतं संभाव्य द्रुततरम् आगच्छ । इति । तथैव *तयानुष्ठिते कौलिकः कस्मिंश्चित् क्षणे किंचिद्गतकोपः समुत्थाय मदवशात् ताम आह ।' हे परुषवादिनि । यद्य् अद्यप्रभृति गृहान निष्क्रमणं न करोषि परुषं च न वदसि । तत् त्वां मुञ्चामि । ततो नापिती स्वरभेदभयान न किंचिद् ऊचे । सो ऽपि भूयस तां तद् एवाह । अथ 12 सा प्रत्युत्तरं यावन न प्रयच्छति । तावत् स प्रकुपितस तीक्ष्णशस्त्रम् आदाय तस्या नासिकाम अच्छिनत् । आह च । पुंश्चलि। तिष्ठेदानीम् । न त्वां भूयम् तोषयिष्यामि । इति जल्पन पुनर् 15 निद्रावशम उपगतः । देवशापि वितनाशात् शुक्षामकण्ठो नष्टनिद्रस् तत् सर्व स्त्रीचरित्रम् अपश्यत् ।। सापि कौलिकभार्या यथेच्छं देवदतेन सह सुरतसौख्यम 18 अनुभूय कस्मिंश्चित् क्षणे स्वगृहम अभ्येत्य तां नापितीम इदम आह । अयि । शिवं भवत्याः। नायं पापात्मा मम गताया उत्थित आसीत् । नापिती प्राह । शिवं नासिकां विना शेषशरीरस्य । 1 तद् द्रुतं मुञ्च मां बन्धनात् । यावन नायं प्रतिबुध्यते । येन स्वगृहं गच्छामि । अन्यथा भूयोऽप्य् एष दुष्टतरं कर्णच्छेदादिनियहं करियति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy