________________
Book I. THE ESTRANGING OF FRIENDS; Tale ivc: Cuckold weaver.
श्रवणात् क्षुभितहृदयः क्रोधवशतो गृहे प्रविश्य ताम् उवाच । आः पापे' पुंश्चलिक प्रस्थितासि । सा प्रोवाच । अहं त्वत्सकाशाद् आगता न कुचचिद् अपि निर्गता । तत् कथं मद्यपानवशाद् अप्रस्तुतं वदसि । अथवा साध्व् इदम् उच्यते ।
वैकल्यं धरणीपातं । नित्यानुचितजल्पनम् ।
संनिपातस्य चिह्नानि । मद्यं सर्वाणि दर्शयेत् ॥ १३६ ॥ तथा च । करसादो ऽम्बरत्यागस् ' तेजोहानिः सरागता । वारुणीसङ्गजावस्था ' भानुनाप्य् अनुभूयते ॥ १३७॥
तथा च ।
Jain Education International
सो ऽपि तच्छ्रुत्वा प्रतिकूलवचनं वेषविपर्ययम् अवलोक्य ताम् आह । पुंश्चलि । चिरकालं मे शृखतस् * तवापवादः । तद् अद्य स्वयं संजातप्रत्ययः । तवापि यथोचितं निग्रहं करोमि । एवम् अभिधाय लगुडप्रहारेस् तां जर्जरितदेहां विधाय स्थूणया सह 12 दृढबन्धनेन बच्चा मद्विह्नलाङ्गो निद्रावशम् अगमत् ।
एतस्मिन्न् अन्तरे तस्याः सखी नापिती कौलिकं निद्रावशं विज्ञायागत्य चेदम् आह । सखि । स देवदत्तस् तस्मिन् स्थाने 15 प्रतीक्षते । तच् छीघ्रं गम्यताम् । सा प्राह । पश्य ममावस्थाम् । तत् कथं गच्छामि । ब्रूहि गत्वा तं कामिनम् । यद् अत्रास्मिन्न् अवसरे त्वया सह कथं समागमः । इति । नापिती प्राह । सखि मा मैवं वद । नायं कुलटाधर्मः । उक्तं च । यतः ।
# 18
28
संदिग्धे परलोके ' जनापवादे च जगति बहुचित्रे । स्वाधीने पररमणे' धन्यास् तारुण्य फलभाजः॥१३९॥
6
विषमस्थ स्वादुफल' ग्रहणव्यवसायनिश्चयो येषाम् । उष्ट्राणाम् इव तेषां ' तन् मन्ये शंसितं जन्म ॥ १३८ ॥ & 21
For Private & Personal Use Only
ar 24
www.jainelibrary.org