SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. Tale ivc: Cuckold weaver. तथा च । स्वागतेनाग्नयः प्रीता ' आसनेन शतक्रतुः । पादशौचेन गोविन्दो ' अन्नाद्येन प्रजापतिः ॥ १३२ ॥ कौलिको ऽपि तच्छ्रुत्वा भार्याम् आह । प्रिये । गच्छ त्वम् एनम् अतिथिम् आदाय गृहं प्रति । चरणशौचभोजन शयनादिभिः सत्कृत्य तत्रैव तिष्ठ | अहं तव कृते प्रभूतं मद्यमांसम् आनेष्यामि इति । एवम् उक्त्वा प्रस्थितः । Jain Education International सापि भार्या पुंश्चली तम् आदाय प्रहसितवदना देवदत्तं मनसि चिन्तयन्ती गृहं प्रति प्रतस्थे । अथवा साध्व् इदम् उच्यते । १ दुर्दिवसे ऽतिपक्षे । दुःसंचारासु नगरवीथीषु । पत्युर् विदेशगमने । परमसुखं जघनचपलायाः ॥१३३॥ पर्यङ्केष्व् आस्तरणं' पतिम् अनुकूलं मनोहरं शयनम् । तृणम् इव लघु मन्यन्ते' कामिन्यश् चौर्यरतलुब्धाः ॥ १३४ ॥ ār For Private & Personal Use Only 27 ar 3 तथा च । · är कुलपतनं जनगह बन्धनम् अपि जीवितव्यसंदेहम् । अङ्गीकरोति कुलटा ' सततं परपुरुषसंसक्ता ॥ १३५ ॥ अथ गृहं गत्वा देवशर्मणे भग्नखदां समर्वेदम् आह । भो भो भगवन् ' यावद् अहं स्वसखीं ग्रामाद् अभ्यागतां संभाष्य द्रुतम् आगच्छामि' तावत् त्वयास्मगृहे ऽप्रमत्तेन भाव्यम् । एवम् उक्ता शृङ्गारं विधाय यावद् देवदत्तम् उद्दिश्य व्रजति । तावत् तद्भर्ता संमुखो मदविहलाङ्गो मुक्तकेशः पदे पदे प्रस्खलन् गृहीतमद्यभाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्वगृहं प्रविश्य मुक्तशृङ्गारा यथापूर्वम् अभवत् । कौलिकस् तां पलायमानां कृतशृङ्गाराम् अवलोक्य प्राग् एव कर्णपरंपरया तस्याः परवाद - 24 I 12 15 18 21 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy