________________
Book I. THE ESTRANGING OF FRIENDS%3
26 Tale ivb: Rams and jackal. Tale iva: Monk and swindler. Tale ivc: Cuckold weaver.
अहो । मन्दमतिर् अयं जम्बुकः । यदि कथम अय् अनयोः संघट्टे पतिष्यति । तन नूनं मृत्युम आप्स्यति । इति वितर्कयामि। अथान्यस्मिन प्रस्तावे तथैव रक्तास्वादनलौल्यान नापसृतस् तयोः । शिरःसंपाते पतितो मृतश च । ततो देवशर्मा प्राह । जम्बुको हुडयुद्धेन । इति । देवशर्मापि तं *शोचमानो मात्राम उद्दिश्य प्रस्थितः।
a
शनैः शनैर् यावद् आगच्छति । तावद् आषाढभूतिं न पश्यति । ततश् चौत्सुक्याच् छौचं विधाय यावत् कन्याम आलो. कयति । तावन मावां न पश्यति । ततश् च । हा हा मुषितो ऽस्मि । इति जल्यन भूतले मूर्छया निपपात । ततश् च क्षणाच' चेतनां लब्ध्वा भूयो ऽपि समुत्थाय फूत्कर्तुम् आरब्धः। भो भो आषाढभूते । क मां वचयित्वा गतो ऽसि । देहि मे प्रतिवचनम् । एवं बहुविधं विलय तस्य पदपद्धतिम् अन्वेषयन् । वयं चाषा- 12 ढभूतिना । इति प्रजल्प शनैः शनैः प्रस्थितः।।
c
अथ गच्छन देवशर्मा सभार्य कौलिकम् एकं मद्यपानकृते समीपवर्तिनि नगरे प्रचलितम अवलोक्य प्रोवाच । भो भद्र । 15 वयं सूर्योढा अतिथयस तवान्तिकं प्राप्ताः । अब मामे कम अपि न जानीमः । तद् गृह्यताम अतिथिधर्मः । उक्तं च । यतः।
अप्रणाय्यो ऽतिथिः सायं । सूर्योढो गृहमेधिनाम् । 18
पूजया तस्य देवत्वं । प्रयान्ति गृहमेधिनः ॥१३०॥ तथा च।
तृणानि भूमिर् उदकं । वाक् चतुर्थी च सूनुता। सताम एतानि हर्येषु । नोच्छिद्यन्ते कदाचन ॥१३१॥
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org