________________
OR, TIIE LION AND THE BULL. Book I. Tale ivb: Rams and jackal.
प्रयोजनम् । अथ तं शयनसमये देवशर्मा दीक्षानुग्रहं दत्त्वा शिष्यताम् अनयत् । सो ऽपि हस्तपादावमर्दनेन पत्रिका नयनादिकया च परिचर्यया तं परं परितोषम् अनयत् । तथापि कक्षान्तरान् मात्रां न मुञ्चति ।
अथैवं गच्छति काल आषाढभूतिश् चिन्तयाम् आस । अहो' कथंचिद् अय् एष मे विश्वासं न गच्छति । तत् किं दिवापि शस्त्रेण मारयामि । किं वा विषं प्रयच्छामि किं वा पशुधर्मेण व्यापादयामि इति ।
·
Jain Education International
25
एवं चिन्तयतस् तस्य देवशर्मशिष्यपुत्रः कश्चिद् ग्रामाद् आमन्त्रणार्थं समायातः प्राह च । भगवन् । पवित्रारोहणविषये मम गृहम् आगम्यताम् ' इति । तच् छ्रुत्वा देवशम्रीषाढभूतिना सह प्रस्थितः । अथैवं तस्य गच्छतो ऽये काचिन् नदी समायाता । 12 तां दृष्ट्वा मात्रां कक्षान्तराद् अवतार्य कन्यामध्ये गुप्तां निधाय देवतार्चनानन्तरम् आषाढभूतिम् इदम् आह । आषाढभूते ' यावद् अहं पुरीषोत्सर्गे कृत्वा समागच्छामि' तावद् एषा कन्या यागेश्वरश् च सावधानेन रक्षणीयः । इत्य् उक्ता गतः । आषाढभूतिर् अपि तस्मिन्न् अदर्शनीभूते मात्राम् आदाय सत्वरं प्रस्थितः ।
6
For Private & Personal Use Only
b
देवशर्मापि छात्रगुणगणानुरञ्जितमनाः सुविश्वस्त उपविष्टो 18 यावत् तिष्ठति । तावद् धुडयूथमध्ये * हुडयुगलयुद्दम् अपश्यत् । अथ रोषवशाद् धुडयुगलस्या पसरणं कृत्वा भूयोऽपि समुपेत्य ललाटपट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच् च दृष्ट्वाशाप्रfresचित्तः पिशितलोलुपतया गोमायुस् तयोर् अन्तरे स्थित्वा रुधिरम् आस्वादयति । देवशर्मापि तद् आलोक्य व्यचिन्तयत् ।
E
15
www.jainelibrary.org