SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 23 OR, THE LION AND THE BULL. Book I. Tale iva: Monk and swindler. ॥ कथा ४॥ अस्ति कस्मिंश्चिद् देशे विविक्तप्रदेशे मठायतनम् । तच परिव्राजको a देवशर्मा नाम प्रतिवसति स्म । तस्यानेकयजमानप्रदतसूक्ष्मवस्त्र- 3 विक्रयवशान कालेन महती वितमात्रा संजाता । ततः स न कस्यचिद् विश्वसति । नक्तं दिनं कक्षान्तरात तां न मुञ्चति । अथवा साधु चेदम् उच्यते । अर्थानाम अर्जने दुःखम् । अर्जितानां च रक्षणे। नाशे दुःखं व्यये दुःखं । धिग् अर्थाः कष्टसंश्रयाः ॥१२३॥ अथाषाढभूतिनामा परवितापहारी धूतॊ ऽर्थमाचां तस्य कक्षा- " न्तर्गतां लक्षयित्वा व्यचिन्तयत् । कथं मयास्यैषा मात्रा हर्तव्या। इति । तद् अत्र मठे तावद् दृढ़शिलासंचयवशाद् भित्तिभेदो नास्ति । उच्चस्तरत्वाच् च द्वारे प्रवेशो नास्ति । तद् एनं वचनैर् 12 विश्वास्याहं छाचतां व्रजामीति । येन विश्वस्तो मम हस्तगतो . भवति । उक्तं च । यतः । निःस्पृहो नाधिकारी स्यान । नाकामी मण्डनप्रियः। 15 नाविदग्धः प्रियं ब्रूयात् । स्फुटवक्ता न वञ्चकः ॥१२४॥ एवं विनिश्चित्य तस्यान्तिकम् उपगम्य । ओं नमः शिवाय । इति ब्रुवाणः साष्टाङ्गं प्रणम्य सप्रश्रयम उवाच । भगवन । असारो 18 ऽयं संसारः । गिरिनदीवेगोपमं यौवनम् । तृणाग्निसमं जीवितव्यम् । अधछायासदृशा भोगाः । स्वमसदृशः पुत्रमित्रभृत्यकलत्रवर्गसंबन्धः । एतन मया ज्ञातं सम्यक् । तत् किं कुर्वतो मे संसा- 1 रसमुद्रोतरणं भविष्यति । तच् छ्रुत्वा देवशर्मा सादरम आह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy