________________
Book I. THE EST RANGING OF FRIENDS%3B
Frame-story: Lion and bull.
22
लभते । अन्यच च । सिंहपराक्रमाभावात् सर्वो ऽपि मृगजनस तौ च शृगालो तुधाव्याधिबाधिता एकां दिशम आश्रित्य स्थिताः। उक्तं च । यतः।
फलहीनं नृपं भृत्याः । कुलीनम् अथवोन्नतम् ।
संत्यज्यान्यच गच्छन्ति । शुष्कं वृक्षम वाण्डजाः ॥११४॥ तथा च। अपि संमानसंयुक्ताः । कुलीना भक्तितत्पराः।
वृत्तिभङ्गान् महीपालं । त्यजन्त्य एव हि सेवकाः ॥११५॥ अनु च। कालातिक्रमणं वृत्तेर् । यो न कुर्वीत भूपतिः।
कदाचित् तं न मुञ्चन्ति । भर्त्तिता अपि सेवकाः ॥११६॥ यावत् समस्तम अप्य एतत् परस्परं भक्षणार्थ सामादिभिर् उपायैस तिष्ठति । तद् यथा। १
देशानाम् उपरि मापा । आतुराणां चिकित्सकाः। वणिजो ग्राहकाणां च । मूढानाम् अपि पण्डिताः ॥११७॥ प्रमादिनां तथा चौरा। भिक्षुका गृहमेधिनाम । *गणिकाः कामिनां चैव । सर्वलोकस्य शिल्पिनः ॥११८॥ सामाद्यैः सज्जितैः पाशैः । प्रतीक्षन्ते दिवानिशम्।
उपजीवन्ति शक्त्या हि । जलजा जलजान् इव ॥११९॥ तौ च करटकदमनको स्वामिप्रसादरहितौ चुत्तामकण्डौ परस्परं मन्त्रयेते । तत्र दमनको ऽब्रवीत् । आर्य करटक । आवां तावद् अप्रधानतां गती। एष पिङ्गलकः संजीवकवचनानुरक्तः स्वव्यापारपराङ्मखः संजातः । सर्वो ऽपि परिजनः को पि कुचापि 18 गतः। तस्मात् किं क्रियते । करटक आह । यद्य अपि त्वदीयवचनं न करोति स्वामी। तद् अपि स्वदोषनाशाय वाच्य एषः । उक्तं च । यतः।
अशृण्वन्न अपि बोद्धव्यो। मन्त्रिभिः पृथिवीपतिः ।
यथा स्वदोषनाशाय । विदुरेणाम्बिकासुतः ॥ १२० ॥ तथा च। मदोन्मत्तस्य भूपस्य । कुञ्जरस्य च गच्छतः।
उन्मार्गवाच्यतां यान्ति । महामात्राः समीपगाः ॥१२१॥ यत् तु त्वयुष शष्पभोजी स्वामिना सह संयोजितः । तत् स्वहस्तेनाङ्गाराः कर्षिताः। दममक आह । सत्यम् एतत् । ममायं दोषः । न स्वामिनः । उक्तं च । यतः।
जम्बुको हुडयुद्धेन । वयं चाषाढभूतिना।
दूतिका परकार्येण । त्रयो दोषाः स्वयंकृताः ॥१२२॥ करटक आह । कथम् एतत् । सो ऽब्रवीत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org