________________
279
OR, THE BARBER WHO KILLED THE MONKS. Book v.
Tale vill: Ape's revenge.
अर्धज्वलच्छरीरः शब्दायमानः प्रत्यासन्नवर्तिन्याम् अश्वकुटयां प्रविष्टः । तत्र च लुठतम तृणप्राचुर्यात सर्वतो ऽपि वहिज्वालाः समुत्थिताः । कुट्यां च निबड़ा घोटकाः केचित् स्फुटितनयनाः । पञ्चत्वं गताः । केचिच् च बन्धनानि बोटयित्वार्धदग्धशरीरा हेषायमाणाः सर्वम् अपि जनं व्याकुलीचक्रुः । एतस्मिन्न अन्तरे राजा सविषादः शालिहोत्रज्ञाञ् चिकित्सकान आहूय प्रोवाच । प्रोच्यताम् अश्वानाम् एतेषां कश्चिद् दाहोपशमोपायः । ते ऽपि शास्त्राणि संचिन्य प्रोचुः । देव । प्रोक्तम् अत्र विषये भगवता शालिहोत्रण। है कपीनां वसयाश्वानां । वहिदाहसमुद्भवा। है व्यथा विनाशम् अभ्येति । तमः सूर्योदये यथा ॥५९॥ तत् क्रियताम् एतच् चिकित्सितम् । यावद् रोगेण ते न विन- 12 श्यन्ति । सो ऽपि तच् छ्रुत्वा वानरवधम् आदिष्टवान । किं बहुना । सर्वे ते व्यापादिताः । इति । यूथपतिस तु न तां कुलधर्षणां साक्षाद् ददर्श । श्रुतिपरंपरया तु श्रुत्वा न सेहे । 15 उक्तं च । यतः। है धर्षणां मर्षयेद् यो ऽव । वंशजां परनिर्मिताम्। है भयाद् वा यदि वा लोभात् । स ज्ञेयः पुरुषाधमः ॥६०॥ 18 है अथ तेन वृद्धवानरेण कुत्रचिन पिपासाकुलेन भमता पद्मिनीखण्डमण्डितं सरः समासादितम् । तत्र च यावन निपुणतयावलोकयति । तावत् प्रविशद् एव पदं पश्यति । न च 1 निर्गछन । इति । ततश चिन्तयाम आस । नूनम् अत्रान्तर्जले दुष्टयाहेण भाव्यम् । तत् पद्मिनीनालम् आदाय दूरस्थो ऽपि जलपानं करोमि । तथानुष्ठिते तन्मध्याद् रत्नमालालंकृतकण्ठो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org