SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 280 Book V. THE FRUITS OF RASHNESS; Tale viii: Ape's revenge. राक्षसो निष्क्रम्य तम उवाच । भोः । यो ऽत्र सलिले प्रविशति । तं भक्षयामि । इति । तन नास्ति धूर्ततरस त्वद् अन्यः । यो ऽनेन विधिना पानीयं पिबति । तन तुष्टो ऽहम् । प्रार्थयस्व : हृदयवाञ्छितम् । कपिर् आह । भोः । कियती भक्षणशक्तिस् ते । स आह । शतसहस्रायुतलक्षाण्य् अपि जलप्रविष्टानि भक्षयामि । बाह्यतः शृगालो ऽपि मां धर्षयति । वानरः प्राह । अस्ति मे भूपतिना सहास्थ्यन्तं वैरम । यद्य् एनां रत्नमालां मे प्रयच्छसि । तत् सपरिवारम् अपि तं भूपतिं वाक्प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि । अथ राक्षसस तस्मै रनमालां " समर्पयाम आस । ___वानरो ऽपि रत्नमालाविभूषितकण्ठो वृक्षप्रासादेषु परिभ्रम जनैर् दृष्टः पृष्टश च । भो यूथप । क्व भवान इयन्तं कालं 12 गत्वा स्थितः । क्व भवतेदग रानमाला लब्धा । या दीश्या सूर्यम अपि तिरस्कुरुते । वानरः प्राह । अस्ति कुत्रचिद् अरण्ये धनदविनिर्मितं सुगुप्ततरं सरः । तत्राोदिते सूर्ये सूर्यवारेण यः कश्चिन 15 निमज्जति । स धनदप्रसादाद ईदयानमालाविभूषितकण्ठो नि. कामति । अथ भूभुजा जनात् तद् आकर्ण्य स वानरः समाहूय पृष्टः । भो यूथपते । सत्यम एतत् । कपिर आह । स्वामिन । एष 18 प्रत्यक्षतया मत्कण्ठस्थितया रानमालया प्रत्ययस ते । यदि तवापि तया प्रयोजनम् । तन मया सह कम अपि प्रेषय । येन दर्शयामि । तच छुवा नृपतिः प्राह । य एवम् । तद् अहं 21 सपरिजनः स्वयम एष्यामि । यथा प्रभूता रनमालाः संपद्यन्ते । वानर आह । स्वामिन् । एतद् एव चारु। अथ भूपतिः सपरिजनो रत्नमालालोभात प्रस्थितः । वा- 4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy