________________
16
Book I. THE ESTRANGING OF FRIENDS%3B
Frame-story: Lion and bull.
पर्यन्तो लभ्यते भूमेः । समुद्रस्य गिरेर् अपि ।
न कथंचिन महीपस्य । चित्तान्तः केनचित क्वचित् ॥५॥ तत् त्वम् अत्र तिष्ठ । यावद् अहं तं समये धृत्वा तच पशान नयामि त्वाम् ।
ततो दमनकः पिङ्गलकसकाशं गत्वेदम् आह । स्वामिन् । न तत् प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहनभूतः । मया पृष्ट इदम् आह । महेश्वरेण तुष्टेन कालिन्दीपरिसरे शष्पाग्राणि भक्षयितुं समादिष्टोऽस्मि । किं बहुना। मम प्रदत्तं भगवता क्रीडार्थ वनम् इदम् । पिङ्गलक आह समयम् । ज्ञातम् अधुना मया । न देवताप्रसादं विना शष्पभोजना निःशङ्का मिर्जने वन एवं नदन्तो धमन्ति । ततस् त्वया किम् अभिहितम् । दमनक आह । स्वामिन् । मतद् अभिहितम् । एतद् वनं चण्डिकावाहनस्य पिङ्गलकस्य . विषयीभूतम् । तद् भवान् अभ्यागतः । ततस् तस्य सकाशं गत्वासौ धातृस्नेहेनेकव च। खादनपानक्रियाविहरिकस्थानाश्रयेण कालं नयतु । इति । तेनापि सर्वम् एतत् प्रतिपन्नम्। उक्तं च । स्वामिनः सकाशाद अभयदक्षिणा दापनीया। तद अच स्वामी प्रमाणम्। 12 - तच् छ्रुत्वा पिङ्गलकः सहर्षम् इदम् आह । साधु । सुमते । साधु । मम हृदयेन सह । मन्त्रयित्वेवाभिहितम् । तद् दत्ता मया तस्याभयदक्षिणा । परं सो ऽपि ममार्थे शपथपुरःसरं द्रुततरम आनेतव्यः । तथा साधु चेदम् उच्यते ।
अन्तःसारैर् अकुटिलैः । सुस्निग्धैः सुपरीक्षितैः।
मन्त्रिमिर् धार्यते राज्यं । सुस्तम्भैर् इव मन्दिरम् ॥९६॥ तथा। मन्त्रिणां भिन्नसंधाने। भिषजां सांनिपातिके।
कर्मणि व्यज्यते प्रज्ञा । स्वस्थ को वा न पण्डितः॥॥ दमनको ऽपि संजीवकम् उद्दिश्य प्रस्थितो ऽचिन्तयत् । अहो । प्रसादसमुखो नः स्वामी वचनवशगश् च संवृत्तः। तन् नास्ति धन्यतरो मया समः । यतः।
अमतं शिशिरे वहिर । अमतं प्रियदर्शनम्।
अमृतं राजसंमानम् । अमृतं वीरभोजनम् ॥९८॥ अथ संजीवकम आसाद्य सप्रश्रयम् उवाच । भो मित्र । प्रसादितो ऽसौ मया भवदर्थे 24 स्वाम्य अभयप्रदानं च दापितः। तद विश्रब्धं गम्यताम् । इति । परं राजप्रसादम आसाद्य मया सह समयधर्मेण वर्तितव्यम् । न प्रभुत्वम आसाद्य सगर्वतया। अहम् अपि तव संकेतेन सर्वां राज्यधुरम् अमात्यपदवीम् आश्रित्योबहिष्यामि । ततो द्वयोर् अपि राज्य- 27 लक्ष्मीर भोग्या भविष्यति । इति । यतः।
पापड़िवद् अधर्मेण । विभवाः स्युर् वशे नृणाम् ।
नृपजान प्रेरयत्य एको । हन्त्य् अन्योऽत्र मृगान व ॥९९॥ तथा च । न पूजयति यो गर्वाद । यथौचित्यं नृपाश्रितान्।
स प्राप्नोति पदभ्रंशं । भूपतेर दन्तिलो यथा ॥१०॥ संजीवक आह । कथम् एतत् । सो ऽब्रवीत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org