SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ तथा च । सदैवापहतो राजा । भोग्यो भवति मन्त्रिणाम् । अत एव हि बाञ्छन्ति । मन्त्रिणः सापदं नृपम् ॥ ८९ ॥ यथा वाञ्छति नीरोगः । कदाचिन् न चिकित्सकम् । तथापद्रहितो राजा । सचिवं नाभिकाङ्क्षति ॥ ९० ॥ एवं चिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलको ऽपि तम आयान्तम् अवलोक्याकारiवरणार्थे यथापूर्वम् अवतस्थे । दमनको ऽपि पिङ्गलकसकाशम् आगत्य प्रणम्योपविष्टः । पिङ्गलकः प्राह 1 भद्र । किं दृष्टं भवता तत् सत्त्वम् । दमेनक आह । दृष्टं स्वामिप्रसादात् । पिङ्गलक आह । अपि सत्यम् । दमनक आह । किं स्वामिपादानाम् अन्यथा विज्ञप्यते । उक्त च । अपि स्वल्पम् असत्यं यः । पुरो वदति भूभुजाम् । देवानां च विनाशः स्याद् । ध्रुवं तस्य गुरोर् अपि ॥ ९१ ॥ सर्वदेवमयो राजा । मुनिभिः परिगीयते । । तस्मात् तं देववत् पश्लेन् । न व्यलीकेन कर्हिचित् ॥ ९२ ॥ सर्वदेवमयस्यास्य । विशेषो भूपतेर् अयम् । शुभाशुभफलं दत्ते । सद्यो देवा भवान्तरे ॥ ९३ ॥ पिङ्गलक आह । अथवा सत्यं दृष्टं भविष्यति भवता । न दीनोपरि महान्तः प्रकुप्यन्ति । 15 एतं च । तथा च । OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचेः प्रणतानि सर्वतः । * समुच्छ्रितान् एव तरून् विबाधते महान् महत्स्य् एव करोति विक्रमम् ॥ ९४ ॥ Jain Education International - 15 1 For Private & Personal Use Only 3 9 vamsa दमनक आह । मया पूर्वम् एतद् विज्ञातम् । यथैवं स्वामी वच्यति । तत् किं बहुना । तम एवाहं देवपादानां सकाशम् आनयामि । तच् च श्रुत्वा पिङ्गलको हृष्टवदनकमलः 21 परां मनसस् तुष्टिम् उपागतः । 12 18 दमनको ऽपि पुनर् गत्वा संजीवकं साक्षेपम् आहूतवान् । एह्य् एहि । दुष्टवृषभ । स्वामी पिङ्गलकस् त्वां व्याहरति । किं निर्भीको भूत्वा मुहुर् मुहुर् व्यर्थ नदसि । इति | 24 तच्छ्रुत्वा संजीवको ऽब्रवीत् । भद्र । क एष पिङ्गलको नाम । तच् छ्रुत्वा सविस्मयं दमनको ऽब्रवीत् । कथं स्वामिनं पिङ्गलकम् अपि न जानासि । पुनश् च सामर्षम् उक्तवान् । फलेन ज्ञास्यति भवान् । नन्व् अयं सर्वमृगपरिवृतो मण्डलवटाभ्याशे मानोस- 27 तचित्तः सत्त्वधनस्वामी पिङ्गलकाभिधानो महासिंहस् तिष्ठति । तच् छ्रुत्वा गतासुम् वात्मानं मन्यमानः संजीवकः परं विषादम् अगमत् । आह च । भद्र । भवान् साधुसमाचारो वचनपटुश् च दृश्यते । तद् यदि माम् अवश्यं तत्र नयसि । ततो ऽभयप्रसादः 80 स्वामिनः सकाशाद् दापचित्तव्यः । दमनक आह । भोः । सायम् अभिहितं भवता । नीतिर् एषा । यतः । www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy