________________
271
OP, THE BARBER WHO KILLED THE MONKS. Book v.
Tale v: Ass as singer.
तस्य रात्रौ क्षेत्रेषु पर्यटतः कदाचिच् छुगालेन सार्ध मैत्री बभूव। तौ च *वृतिभङ्गं कृत्वा कर्कटिकाक्षेत्रेषु प्रविश्य तत्फलभक्षणं स्वेच्छया कृत्वा प्रत्यूषे स्वस्थानं व्रजतः । अथ कदाचित क्षेत्रम- 3 ध्यस्थितेन मदोद्धतरासभेन शृगालो ऽभिहितः । भो भगिनीसुत । पश्य । अतीवनिर्मला रजनी। तद् अहं गीतं करिष्यामि । तत् कतमेन रागेण करोमि । स आह । माम । किम अनेनानर्थप्रचालनेन । यतश चौर्यकर्मप्रवृता वयम् । चौरजारैर् निभृतैर् एव स्थातव्यम् । इति । उक्तं च । , कासी विवर्जयेच चौर्य । निद्रालुश चर्मचौरिकाम्। है जिहालौल्यं च रोगायो । जीवितुं यो ऽव वाञ्छति ॥३॥ *तथा त्वदीयगीतं शहनादानुवादि न मधुरम् । इति दूराद् अपि श्रुत्वोत्थाय क्षेत्ररक्षापुरुषा बन्धं वधं व विधास्यन्ति । तद् भक्षय 12 तावन निभृतः । तच छुत्वा रासभ आह । भोः । वनाश्रयत्वात् त्वं गीतसं न वेसि । तेनैतद् ब्रवीषि । उक्तं च ।
शरज्ज्योत्स्नाहते दूरं । तमसि प्रियसंनिधौ। है धन्यानां विशति श्रोचे । गीतझंकारजा सुधा ॥३९॥ शृगाल आह । माम । अस्त्य् एतत् । परं कठोरम उन्नदसि । तत् किं तेन स्वार्थभंशिना । रासभ आह । धिग धिम् मूर्ख । किम 18 अहं गीतं न जानामि । तच् छ्रयताम् । तस्य भेदाः । तद् यथा । सप्त स्वरास वयो यामा । मूर्छनास् त्व *एकविंशतिः । ताना एकोनपञ्चाशत् । तिम्रो मावा लयास वयः ॥४०॥ 1 स्थानत्रयं यतीनां च । षड् आस्यानि रसा नव । वर्णाः षट्त्रिंशतिर् भाषाश । चत्वारिंशत् ततः स्मृताः ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org