________________
262
Book v. THE FRUITS OF RASHNESS%3B
Tale ii: Four treasure-seekers.
उत्तिष्ठ क्षणम एकम् उहह सखे दारिद्यभारं मम श्रान्तस तावद् अहं चिरान मरण सेवे त्वदीयं सुखम। इत्य उक्तो धनवर्जितेन सहसा गत्वा श्मशाने शवो दारियान मरणं परं सुखम् इति ज्ञात्वेव तूष्णी स्थितः॥१॥ sardi तत् सर्वथार्थार्जन एव यतितव्यम् । उक्तं च । है न हि तद् विद्यते किंचिद् । यद् अर्थेन न सिध्यति। । है यत्नेन मतिमांस तस्माद् । अर्थम् एकं प्रसाधयेत् ॥१९॥ स चार्थः पुरुषाणां षद्भिर् उपायैर् भवति । तद् यथा । भिक्षया । नृपसेवया । कृषिकर्मणा । विद्यार्जनेन । व्यवहारेण वणिक्कर्मणा • च । परं सर्वेषाम् अय् एतेषां मध्ये वणिक्कर्मण निरर्गलो १ऽर्थलाभः । उक्तं च। । हता भिक्षा ध्वाङ्घर् विचलति नृपाणाम् अपि मनः , कृषिः क्लिष्टा विद्या गुरुविनयवृत्त्यातिविषमा। है कुसीदं दारिद्र्यं परकरगतार्थात्मकरणं । १ न मन्ये वाणिज्यात किम् अपि च शुभं वर्तनम् अहो॥२०॥ sikha 15 तच च वाणिज्यं सप्तधा वितागमाय स्यात् । तद् यथा । कूटतुलामानम् । मिथ्याक्रयकथनम् । निक्षेपप्रवेशः । परिचितयाहकागमः । गोष्ठिककर्म । गान्धिकव्यवहारो देशान्तरभाण्डनयनं च । 15 इति । उक्तं च। है पूर्णापूर्णे माने। परिचितजनवञ्चनं तथा नित्यम् ।
मिथ्याक्रयस्य कथनं । स्वभावरूपं किराटानाम् ॥२१॥ अन्यच् च ।
निक्षेपे गृहपतिते । श्रेष्ठी संस्तौति देवतां नित्यम् । । निक्षेपेशो म्रियतां । दास्याम्य उपयाचितं तुभ्यम् ॥२२॥ ars
ar 21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org