________________
260
Book v. THE FRUITS OF RASHNESS;
Tale i: Brahmanee and faithful mongoos.
नकुलम अपि स्तन्यदानाभ्यङ्गमज्जनादिभिः पुपोष । परम । एष दुष्टजातित्वात् कदाचित् सुतस्य विरुद्धम आचरिणति । इति न नकुलस्य विश्वसिति । अथवा साध्व् इदम् उच्यते । कुपुत्रो ऽपि भवेत् पुंसां । हृदयानन्दकारकः ।
दुर्विनीतः कुरूपो ऽपि । मूल् ऽपि व्यसनी खलः ॥१४॥ अथ सा कदाचित् पुत्र शय्यायां सुस्थितं विधाय जलकुम्भं 6 चादाय पतिम उवाच । भो उपाध्याय । जलार्थम अहं यास्यामि । पुत्रो ऽयं भवता नकुलाद् रक्षणीयः । अथ गतायां तस्यां ब्राह्मणो ऽपि गृहं शून्यीकृत्य स्वयम अपि क्वचिद् भिक्षार्थ निर्ययौ। ____ अवान्तरे कृष्णसर्पो बिलान निष्क्रम्य दैववशात् तस्य बालकस्य पर्यङ्कान्ति कम आगमत् । अथ नकुलस तं स्वभाव- 12 वैरिणं मत्वा स्वभ्रातृवधशङ्कयान्तराले संनिपत्य दुष्टसर्पण सह संग्रामं विधाय तं खण्डशः कृत्वा दरतश चिक्षेप । ततो निजशौर्यप्रमुदितो रुधिराप्लुतमुखः स्वव्यापारप्रकाशनाय मातुः संमु- 15 खम् आजगाम । मातापि रुधिरक्लिन्नमुखम् अतिसंरब्धं तम् आगच्छन्तम अवलोक्य । नूनं भक्षितो ऽनेन दुरात्मना मम दारकः । इति शङ्कितचिता कोपा अविमृश्य तस्योपरि जल- 18 कुम्भं चिक्षेप । कुम्भपातमात्रगतजीवितं तं नकुलं तवैवावगणय्य यावत् स्वगृहम आगच्छति । तावद् बालकस तथैवास्ते । पर्यकान्तिके च महान्तं कृष्णसर्प खण्डशः कृतं ददर्श । अथ सोपका- 21 रकपुत्रस्यानालोचितकृत वधशोकेनातहृदयात्मशिरोवक्षःस्थलादिताडनम् अकरोत् । एतस्मिन्न अवसरे ब्राह्मणो ऽपि कुतश्चिद् *गृहीतनिसावकः परिभ्रम्य यावद् आगतः । तावत् पश्यति । 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org