________________
259
OF, THE BARBER WHO KILLED THE MONKS. Book v. Frame-story.
Tale i: Brahmanee and faithful mongoos.
तत्र गत्वा खदिरमयांल लगुडान् सज्जीकृत्य कपाटकोणैकदेशे संस्थाप्य सार्धप्रहरोद्देशे भूयो ऽपि विहारद्वारम् आश्रित्य स्थितः । ततश च सर्वान् क्रमेण निर्गच्छतो गुरुप्रार्थनया स्वगृहम् अनयत् । ते ऽपि सर्वे कर्पटवित्तलोभेन भक्तियुक्तान अपि परिचि. तश्रावकान् परित्यज्य प्रहृष्टास तस्य पृष्ठतो जग्मुः। अथवा साध्व् इदम् उच्यते।
एकाकी गृहसंत्यक्तः । पाणिपात्रो दिगम्बरः ।
सोऽपि संबाध्यते लोके । तष्णया पश्य कौतकम ॥११॥ ततो नापितो ऽपि गृहमध्ये तान् प्रवेश्य लगुडप्रहारैर् अताडयत् । ते ऽपि तायमाना एके पञ्चत्वम् उपगताः । अन्ये भिन्नमस्तकाः *फूत्कर्तुम् आरेभिरे । अत्रान्तरे तदाकन्दशब्दम आकर्ण्य पुरकोटपालपुरुषैर् अभिहितम् । भोः । किम् एष नगरमध्ये महान १ कोलाहलः । तद् गम्यतां गम्यताम् । इति वदन्तस ते सर्वे यावद वेगाद् गत्वा पश्यन्ति । तावत् क्षपणका रुधिराप्लावितशरीरा नापितगृहात पलायमाना दृष्टाः पृष्टाश च । भोः । किम् एतत् । ते प्रोचुर यथावस्थितं नापितवृत्तान्तम् । तैर अपि नापितो दृढबन्ध- 12 नबद्धो हतशेषक्षपणकैः सह धर्माधिष्ठानं नीतः कारणिकः पृष्टश् च । भोः । किम एतद् भवता कुकृत्यम् अनुष्ठितम् । सो ऽब्रवीत् । भोः । किं करोमि । एतद् अभिधाय तेषां माणिभद्रवृत्तान्तम् अकथयत्।
16 तैश च माणिभद्राकारणाय कश्चित् प्रेषितः । तेन च गत्वा माणिभद्रः समानीतः। तैः पृष्टः । भोः श्रेष्ठिन् । किं त्वया कश्चित् क्षपणको व्यापादितः । ततस तेनापि सर्वक्षपणकवृत्तान्तः कथितः । अथ तैर् अभिहितम् । अहो । शूलायाम् आरोप्यताम् असौ 18 कुपरीक्षितकारी दुरात्मा नापितः । तथानुष्ठिते तैर् अभिहितम्।
कुकृतं कुपरिज्ञातं । कुश्रुतं कुपरीक्षितम् ।
तन नरेण न कर्तव्यं । नापितेनाच यत् कृतम् ॥१२॥ अथवा साध्व इदम् उच्यते ।
अपरीक्षितं न कर्तव्यं । कर्तव्यं सुपरीक्षितम् ।
पश्चाद् भवति संतापो। ब्राह्मणीनकुलं यथा ॥१३॥ माणिभद्रः प्राह । कथम् एतत् । ते प्रोचुः ।
॥ कथा १॥ . अस्ति कस्मिंश्चिद् अधिष्ठाने देवशर्मा नाम ब्राह्मणः । तस्य भार्या पुत्रम् एकं नकुलं च सुषुवे । अथ सा मुतवत्सला सुतवन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org