________________
249
OR, THE APE AND THE CROCODILE. Book IV.
Tale vill: Adulteress tricked by paramour.
॥ कथा ॥ कस्मिंश्चिद् अधिष्ठाने हालिकदम्पती प्रतिवसतः स्म । सा च हालिकभार्या पत्युर् वृद्धभावान सदैवान्यचित्ता न कथंचिद् गृहे । स्थैर्यम् आलबते । केवलं परपुरुषरता सा । अथ केनचित् परवितापहारकेण धूर्तेनोपलक्ष्य प्रोक्ता सा । सुभगे। मृतभार्यो ऽहं त्वदर्शनेन स्मरपीडितश च । तद् दीयतां मे रतिसर्वस्वद-: क्षिणा । ततस तयाभिहितम् । भोः सुभग । यद्य एवम् । तद अस्ति मे पत्युः प्रभूतधनम् । स च वृद्धत्वात् प्रचलितुम अप्य् असमर्थः । तत् तद् आदायागच्छामि । यथा त्वया सहान्यत्र . गवा रतिसुखम् अनुभवामि । सो ऽब्रवीत् । रोचते मह्यम अप्य् एतत् । प्रत्यूषे ऽच स्थाने शीघ्रं समागन्तव्यम । येन सुन्दरं किंचिन नगरं गत्वा त्वया सह जीवलोकः सफलीक्रियते । सापि । 12 तथा । इति प्रतिज्ञाय प्रहसितवदना स्वगृहं गत्वा रात्रौ प्रसुन्ने भर्तरि सर्व वित्तम् आदाय प्रत्यूषसमये कथितस्थानम् उपागमत्। धूतॊ ऽपि ताम अये विधाय दक्षिणां दिशम आश्रित्य प्रस्थितः । 15 एवं च सप्रमोदं नया सह वार्तासुखम् अनुभवन योजनहये व्यतीते ऽये नदी दृष्ट्वा धूर्तश चिन्तयाम आस । किम् अहम अनयाईजरत्या करिष्यामि । किं च । कदाचिद् अस्याः पृष्ठतः 13 को ऽपि समेति । तन मे महानर्थः स्यात् । केवलम् अस्या वित्तम् आदाय गच्छामि।
इति संचिन्य ताम उवाच । प्रिये । दुतरेयं महानदी । तद् । अहं द्रव्यमानां पारे धृत्वा समागच्छामि । यथा त्वाम् एकाकिनी स्वपृष्ठम् आरोप सुखेनोत्तारयामि । सा प्राह । सुभग । एवं
Kk
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org