________________
248
Book IV. THE LOSS OF ONE'S GETTINGS; Tale vii: Assin tiger.skin.
Frame-story.
गच्छति काले स पीनतनुः संजातः । कृच्छ्राद् बन्धनस्थानम् अपि नीयते। ___अथान्यस्मिन्न् अहनि रासभो दूरस्थरासभीशष्टम अशृणोत् ।। तच्छ्रवणमात्रेणैव स्वयं शब्दायितुम् आरब्धः । अथ तैः क्षेत्रपैः । रासभो ऽयं प्रतिच्छन्नः । इति ज्ञात्वा लगुडपाषाणशरमहारैर् व्यापादितः ॥
अतो ऽहं ब्रवीमि । सुगुप्तं रक्ष्यमाणोऽपि । इति । अथूतत् तेन सह वदतो जलचरेगेकनागत्याभिहितम् । भो मकर । खदीया भार्यानशन उपविष्टा मृता । सो ऽपि तच छूला व्याकुलितमनाः प्रालपत् । भोः । किम इदं संजातं मे मन्दभाग्यस्य । उक्तं च। १
माता यस्य गृहे नास्ति । भार्या च प्रियवादिनी।
अरण्यं तेन गन्तव्यं । यथारण्यं तथा गृहम् ॥४४॥ तत् । मित्र । क्षम्यताम् । यत् किंचिन मयापराधम् । अहं तद्वियोगाद् वैश्वानर प्रवेशं 12 करिष्यामि । तच छूत्वा वानरः प्रहसन प्रोवाच । भोः । ज्ञातस् वं मया प्रथमम् एव । *आसीर यत् स्त्रीवश्यः स्त्रीजितश् च । सांप्रतं च प्रत्ययः संजातः । तत् । मूढ । आनन्दे ऽपि जाते त्वं विषादं गतः। तादृग्भार्यायां मृतायाम् उत्सवः कर्तुं युज्यते । उक्तं च। 15 यतः। या भार्या दुष्टचरिता। सततं कलहप्रिया।
भार्यारूपेण सा ज्ञेया। विदग्धैर् दारणा जरा ॥४५॥ तस्मात् सर्वप्रयत्नेन । नामापि परिवर्जयेत् । स्त्रीणाम इह हि सर्वासां । य इच्छेत सुखम् आत्मनः ॥४६॥ यद् अन्तस तन न जिह्वायां। यज जिह्वायां न तद बहिः। यद बहिस तन न कुर्वन्ति । विचित्रचरिताः स्त्रियः ॥४७॥ आस्तां तावत् किम् अन्येन । *दौरात्म्येनेह योषिताम्। विधृतं स्वोदरेणापि । घ्नन्ति पुत्रम् अपि स्वकम् ॥४८॥ कक्षायां स्नेहसद्भावं । कठोरायां च मार्दवम्।
नीरसायां रसं बालो। बालिकायां विकल्पते ॥४॥ मकर आह । भोः । अस्त्य् एतत् । परं किं करोमि । ममानर्थद्वयम् एव संजातम् । एकं तावद् गृहभङ्गः । अपरं मित्रेण सहासंतोषश् च । अथवा भवत्य् एवं दैवोपह- 27 तानाम् । उक्तं च । यतः।
यादशं मम पाण्डित्यं । तादृशं द्विगुणं तव ।
नाभूज जारो न भर्ता च । किं *नु पश्यसि नपिके ॥५०॥ वानर आह । कथम् एतत् । सो ऽब्रवीत् ।
80
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org