SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ OR, THE APE AND THE CROCODILE. Book IV. 247 Tale vi: Nanda and Vararuci as slaves of love. Frame-story. Tale vii : Ass in tiger-skin. अथ नन्दस्य भार्या तथैव रुष्टा प्रसाद्यमानापि न तुथति । तेनोक्तम् । भद्रे । त्वया विना मुहूर्तम् अपि न जीवामि । पादयोः पतित्वा त्वां प्रसादयामि। साब्रवीत् । यदि खलीनं मुखे प्रक्षियाहं तव पृष्ठे समारुह्य त्वां धावयामि । धावितस् तु यद्य् अश्ववद् घेषसे । तदा प्रसन्ना भवामि । तथैवानुष्ठितम्। अथ प्रभातसमये सभोपविष्टस्य राज्ञो वररुचिर् आयातः । तं च दृष्ट्वा *राजा पप्रच्छ । भो वररुचे । किम् अपर्वणि मुण्डितं शिरस ते । सो ऽब्रवीत् । न किं दद्यान न किं कुर्यात् । इति ॥ तत् । मूढ । त्वम् अपि नन्दवररुचिवत् स्त्रीवश्यः । ततस तद्भणितेन त्वया मां प्रति वधोपायप्रयासः प्रारब्धः। परं स्ववाग्दोषेणैव प्रकटितः। अथवा साध्व इदम उच्यते । आत्मनो मुखदोषेण । बध्यन्ते शुकसारिकाः। बकास तत्र न बध्यन्ते। मौनं सर्वार्थसाधनम् ॥४२॥ तथा च। मुगप्तं रक्ष्यमाणोऽपि । दर्शयन् दारुणं वपुः । व्याघ्रचर्मप्रतिच्छन्नो। वाकते रासभो हतः॥४३॥ मकर आह । कथम् एतत् । सो ऽब्रवीत् । ॥ कथा ७॥ अस्ति कस्मिंश्चिद् अधिष्ठाने शुद्धपटो नाम रजकः । तस्य च *गर्दभ एको ऽस्ति । सो ऽपि घासाभावाद् अतिदुर्बलतां गतः । 13 तेन च रजकेनाटव्यां भ्रमता मृतव्याघ्रो दृष्टः । चिन्तितं च । अहो । शोभनम् आपतितम् । अनेन व्याघ्रचर्मणा प्रतिच्छाद्य रासभं रात्री यवक्षेत्रेधूसृजामि । ते च क्षेत्रपाला व्याघ्रं मत्वा 21 न निष्कासयिष्यन्ति । तथानुष्ठिते रासभो यथेच्छं यवभक्षणं करोति । प्रत्यूषे रजको भूयो ऽपि स्वाश्रयं नयति । एवं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy