SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Book IV. THE LOSS OF ONE'S GETTINGS; 246 Tale vi: Nanda and Vararuci as slaves of love. Frame-story. यातः । राज्ञापि वधादिष्टः सो ऽब्रवीत् । देव । अनया मम सक्तं किंचिद् गृहीतम् अस्ति । यदि त्वं धर्मवत्सलः । तदा दापय । राजाब्रवीत् । भद्रे । यत् त्वयास्य सक्तं किंचिद् गृहीतम् अस्ति । 3 तत् समर्पय । सा प्राह । देव । मया न किंचिद् गृहीतम् । ब्राह्मण आह । यन मया त्रिवाचिकं स्वजीविताध तव दतम् । तद् देहि । अथ सा राजभयात् तथैव विवाचिकम एव । जीवितं . मया दतम् । इति जल्पन्ती प्राणैर् विमुक्ता । ततः सविस्मयं राजाब्रवीत् । किम् एतत् । इति । ब्राह्मणेनापि पूर्ववृत्तान्तः सकलो ऽपि तस्मै निवेदितः ॥ अतो ऽहं ब्रवीमि । यदर्थे स्वकुलं त्यक्तम् । इत्यादि । वानरः पुनर् अप्य् आह । साधु चेदम उपाख्यानकं श्रूयते। न किं दद्यान न किं कुर्यात् । स्त्रीभिर् अभ्यर्थितो नरः। अनश्वा यत्र हेषन्त । शिरोपर्वणि मुण्डितम् ॥४१॥ मकरः प्राह । कथम् एतत् । वानरः कथयति । 12 ॥ कथा ६॥ अस्ति प्रख्यातबलपौरुषो ऽनेकनरेन्द्रवृन्दमुकुटमरीचिंजालजटिलीकृतपादपीठः शरछशाङ्ककिरणनिर्मलयशाः समुद्रपर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा। तस्य सर्वशास्त्राधिगतसमस्ततत्वः 18 सचिवो वररुचिर् नाम । तस्य च प्रणयकलहेन जाया कुपिता। सा चातीववल्लभानेकप्रकारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ता । भद्रे । येन प्रकारेण तुष्यसि । तं वद । निश्चितं 21 करोमि । ततः कथंचित् नयोक्तम् । यदि शिरो मुण्डयित्वा मम पादयोर् निपतसि । तदा प्रसादाभिमुखी भवामि । तथा चानुष्ठिते प्रसन्नासौ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy