SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 13. OR, THE LION AND THE BULL. Book I. . Tale ii: Jackal and drum. Frame-story. तथा च। शक्तिवैकल्यनम्रस्य । निःसारत्वाल लघीयसः। जन्मिनो मानहीनस्य । तृणस्य च समा गतिः॥१॥ तद् एवं ज्ञावा स्वामिना धैर्यावष्टम्भः कार्यः। न शब्दमात्राद् भेतव्यम् । उक्तं च। पूर्वम् एव मया ज्ञातं । पूर्णम् एतद् धि मेदसा। अनुप्रविश्य विज्ञातं । यावच चर्म च दारु च ॥ २॥ पिङ्गलको ऽब्रवीत् । कथम् एतत् । दमनक आह। ॥ कथा २॥ अस्ति । कस्मिंश्चिन् प्रदेशे गोमायुः शुक्षामकण्ठ आहारक्रियार्थ परिभ्रमन्न् अरण्यमध्ये नृपस्यायोधनभूमिम् अपश्यत् । अथ मुहूर्त , यावत् तिष्ठति । तावन् महान्तं शब्दम अशृणोत् । तच् छुत्वातीव शुभितहृदयः परं विषादम अगमत् । आह च । अहो । कष्टम आपतितम् । इदानीं विनष्टो ऽस्मि । कस्यायं शब्दः । कीदृशं 12 सत्तम । इति । यावद् अन्वेषयति । तावद् गिरिशिखराकारां भेरी दृष्ट्वाचिन्तयत् । किम् अयं शब्दः स्यात् स्वभावजः । उत परप्रणीतः । इति । अथ यदा भेरी वायुना प्रेरितैस् नृणाः स्पृश्यते । 15 तदा शब्दं करोति । अन्यथा तूष्णीम आस्ते । स च तस्या *असारतां ज्ञात्वा समीपम् उपश्लिष्टः । स्वयं च कौतुकाद् उभयमुखयोर् अताडयत् । हर्षाद् इत्य् अचिन्तयत् । अहो । चिराद् एवास्माकम् 18 अपि भोजनम् आपतितम् । तन नूनम् एतन मांसमेदोभिः पूरितं भविष्यति । इति । एवम् अवधार्य कस्मिंश्चित् प्रदेशे विदान्तिः प्रविष्टः । तच् च परुषचर्मावगुण्ठितम् । ततः कथम् 21 अपि न दंष्ट्राभङ्गः संजातः । अतो निराशीभूतस् तद् दारुचावशेषम अवलोक्य लोकम् अपठत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy