________________
पिङ्गलक आह । मा मैवम् उच्यताम् । चिरंतनस् त्वम् अस्माकं मन्त्रिपुत्रः । दमनक आह । देव । किम् अपि वक्तव्यम् अस्ति । सो ऽब्रवीत् । भद्र । यत् ते हृदयस्थम् । तद् ब्रूहि । सो ऽब्रवीत् । उदकग्रहणाय प्रवृत्तस्य स्वामिनः किम् इह निवृत्यावस्थानम् । पिङ्गलक आकारं अ प्रच्छादयन्न् आह । दमनक । किंचिन् न । सो ऽब्रवीत् । देव । यदि नाख्येयम् । तदा तिष्ठतु
Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull..
दारेषु किंचित् पुरुषस्य वाच्यं किंचिद् वयस्येषु सुतेषु किंचित् । सर्वे ऽपि ते प्रत्ययिनो भवन्ति सर्व न सर्वस्य च संप्रकाश्यम् ॥ ७४ ॥
indra 9
एवम् उक्ते पिङ्गलकश् चिन्तयाम् आस । योग्यो ऽयं दृश्यते । तत् कथयाम्य् एतस्यात्मनो ऽभिप्रायम् । उक्तं च ।
सुहृदि निरन्तरचित्ते । गुणवति भृत्ये ऽनुवर्तिनि कलचे । स्वामिनि शक्तिसमेते । निवेद्य दुःखं सुखी भवति ॥ ७५ ॥
तथा च ।
तथा च ।
भो दमनक । शृणोषि महाशब्दं दूरात् । सो ऽब्रवीत् । स्वामिन् । शृणोमि । तत् किम् । पिङ्गलक आह । भद्र । अस्माद् वनाद् गन्तुम् इच्छामि । दमनक आह । कस्मात् । पिङ्गलक 15 आह । यतो ऽस्मद्दनेऽपूर्व सत्त्वं किंचित् प्रविष्टम् । यस्यायं महाञ् शब्दः श्रूयते । तद् अस्य शब्दस्यानुरूपेण सत्त्वेन भाव्यम् । सत्त्वानुरूपेण च पराक्रमेण । इति । दमनक आह । किं शब्दमाचाद् एव स्वामी भयम् उपेति । उक्तं च ।
18
Jain Education International
12
अम्भसा भिद्यते सेतुस् । तथा मन्त्रो ऽप्य् अरक्षितः । पैशुन्याद् भिद्यते स्नेहो । वाग्भिर् भिद्येत कातरः ॥ ७६ ॥
21
तन न युक्तं स्वामिनः पूर्वपुरुषोपात्तं कुलक्रमागतं वनम् एकपद एव परित्यक्तुम् । यतः । चलत्य् एकेन पादेन । तिष्ठत्य् एकेन पण्डितः ।
समीक्ष्य परं स्थानं । पूर्वम् आयतनं त्यजेत् ॥ ७७ ॥
अन्यच् च । इह शब्दा अनेकप्रकाराः श्रूयन्ते । ते तु शब्दमात्रास्य् एव । न तु भयकारणम् । 24 तद् यथा 'मेघस्तनित॑वेणुवीणापणव॑मृदङ्गशङ्खघण्टाशकटंकपाटयन्त्रादीनां शब्दाः श्रूयन्ते । न च तेभ्यो भेतव्यम् । उक्तं च ।
6
अप्य् उत्कटे च रौद्रे च शत्रौ यस्य न हीयते । धैर्य प्राप्ते महीपस्य । न स याति पराभवम् ॥ ७८ ॥ दर्शितभये ऽपि धातरि । धीरत्वं नैव चलति धीराणाम् । शोषितसरसि निदाघे । नितराम एवोद्गतः सिन्धुः ॥ ७९ ॥ यस्य न विपदि विषादः । संपदि हर्षो रणे च धीरत्वम् । तं भुवनत्रयतिलकं । जनयति जननी सुतं विरलम् ॥ ८० ॥
1
āūr 12
For Private & Personal Use Only
ar
27
ar 80
www.jainelibrary.org