________________
Book IV. THE LOSS OF ONE'S GETTINGS;
Tale v: How false wife rewards true love.
Jain Education International
॥ कथा ५ ॥
अस्ति कस्मिंश्चिद् अधिष्ठाने को sपि ब्राह्मणः । तस्य च प्रियातिप्राणप्रिया । सापि कुटम्बेन सह प्रतिदिनं कलहं कुर्वाणा न विश्राम्यति । सो ऽपि ब्राह्मणः कलहम् असहमानो भार्यावालभ्यात् *स्वकुटम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवीमध्ये ब्राह्मण्याभिहितम् । आर्यपुत्र' तृष्णा मां बाधते । तद् उदकं क्वाप्य् अन्वेषय । अथासौ तवचनानन्तरं यावद् उदकं गृहीत्वा समागच्छति । तावत् तां मृताम् अपश्यत् । अतिवल्लभतया विषादं कुर्वन् यावद् विलपति । तावद् आकाशे वाचं शृणोति । तथा हि । यदि । ब्राह्मण । त्वं स्वकीयजीवितस्यार्ध ददासि ' ततस् ते जीवति ब्राह्मणी । तच् छ्रुत्वा ब्राह्मणेन शुची - भूय तिसृभिर् वाचाभिः स्वजीवितार्ध दत्तम् । * वाक्समम् एव 12 च जीविता सा ब्राह्मणी । अथ तौ जलं पीत्वा वनफलानि च भक्षयित्वा गन्तुम् आरब्धौ । ततः क्रमेण कस्यचिन् नगरस्य प्रवेशे पुष्पवाटिकां प्रविश्य ब्राह्मणो भार्याम् अभिहितवान् । 15 भद्रे' यावद् अहं भोजनं गृहीत्वा समागच्छामि' तावत् त्वयात्र स्थातव्यम् । इत्य् अभिधाय प्रायासीत् । अथ तस्यां पुष्पवाटिकायां पङ्गुर् अरघट्टं खेटयमानो दिव्यगिरा गीतम् उहिरति । 18 तच् च श्रुत्वा कुसुमेषुणाभिहतया तत्सकाशं गत्वाभिहितम् । भद्र यदि मां न कामयसे । तन् मम सक्ता ब्रह्महत्या तव । पङ्गुर् अब्रवीत् । किं व्याधियस्तेन मया करिष्यसि । साब्रवीत् । किम् अनेनोक्तेन । अवश्यं त्वया सह संगमः कार्यः । तच् छ्रुत्वा तथा कृतवान् । सुरतानन्तरं साब्रवीत् । इतः प्रभृति यावज्जीवं मयात्मा
1
21
244
For Private & Personal Use Only
www.jainelibrary.org