SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ OR, THE APE AND THE CROCODILE. Book IV. Tale iii: Potter as warrior. Tale iv: Jackal nursed by lioness. इति । सोऽपि तद् आकर्ण्य कोपाविष्टमनाः प्रस्फुरिताधरपल्लवस् ताम्रलोचनस् त्रिशिखां भृकुटिं कृत्वा तौ निर्भर्त्सयमानः परुषम् उवाच । अथ सिंह्यैकान्ते नीत्वा प्रबोधितो ऽसौ । वत्स ' कदाचिद् अपि मैवं वादीः । भवदीयभ्रातराव् एतौ । अथासौ सान्त्ववचनेन प्रभूततर कोपाविष्टस् ताम् अय् उवाच । किम् अहम् एताभ्यां शौर्येण रूपेण विद्याभ्यासकौशलेन वा हीनः । येनैतौ माम् उपहसतः । तन् मयावश्यम् एतौ व्यापादनीयौ । तच्छुत्वा तस्य जीवितम् इच्छन्ती सिंह्य् अन्तर् विहस्य प्राह । शूरो ऽसि कृतविद्यो ऽसि ' दर्शनीयो ऽसि पुत्रक । कुले यस्मिंस् त्वम् उत्पन्नो ' गजस् तत्र न हन्यते ॥ ३९ ॥ तत् सम्यक् शृणु । वत्स । त्वं शृगालीसुतो मया कृपापरया स्वस्तनक्षीरेण पुष्टिं नीतः । तद् यावद् एतौ मत्पुत्रौ शिशुत्वात् । त्वां शृगालं न जानीतः । तावद् द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नो चेत् । एताभ्यां निहतो मृत्युपथम् एष्यसि । सो ऽपि तच् छुत्वा भीतभीतमनाः शनैः शनैर् अपसृत्य स्वजाती- 10 यानां मिलितः ॥ 12 Jain Education International Frame-story. तस्मात् त्वम् अपि यावद् एते सुभटास् त्वां कुलालं न जानन्ति । तावद् द्रुततरम् अपसर । नो चेत् । विडम्वनां प्राप्य 18 मरिष्यसि । इति । कुलालो ऽपि तद् आकर्ण्य सत्वरं प्रनष्टः ॥ 1 यदर्थे स्वकुलं त्यक्तं । जीवितार्ध च हारितम् । . सा मां त्यजति निःस्नेहा । कः स्त्रीणां विश्वसेन् नरः ॥ ४० ॥ मकर आह । कथम् एतत् । वानरः कथयति । 243 अतोऽहं ब्रवीमि । स्वार्थम् उत्सृज्य यो दम्भी । इत्यादि । धिग् मूर्ख यत् त्वया स्त्रियो ऽर्थ एतत् कार्यम् अनुष्ठातुम् आरब्धम् । न हि स्त्रीणां कथंचिद् विश्वासम् 21 उपगच्छेत् । सुष्ठु खल्व् इदम् आख्यानकम् आख्यायते । For Private & Personal Use Only 9 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy