SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Book IV. THE LOSS OF ONE'S GETTINGS: 242 Tale iv: Jackal nursed by lioness. स्त्रीविप्रलिङ्गिबालेषु । प्रहर्तव्यं न कहिचित् । प्राणात्यये ऽपि संजाते । विश्वस्तेषु विशेषतः ॥३५॥ इदानीं त्वम एनं भक्षयित्वा पथ्यं कुरु । प्रातर् *अन्यत् किंचिद् ४ आनेष्यामि । साब्रवीत् । कान्त । त्वयायम् । बालको ऽयम् । इति विचिन्य न व्यापादितः । तत् कथम अहम एनं स्वोदरार्थे विनाशयामि । उक्तं च । अकृत्यं नैव कृत्यं स्यात् । प्राणत्यागे ऽप्य् उपस्थिते । न च कृत्यं परित्याज्यम् । एष धर्मः सनातनः ॥३६॥ तस्मान ममायं तृतीयः पुत्रो भवियति । इति । एवम् उत्ता' स्वस्तनक्षीरेण तं परां पुष्टिम उपानयत् । एवं ते वयो ऽपि शिशवः परस्परम् अज्ञातजातिविशेषा एकाचारविहारा बालकालं निर्वाहयां चक्रुः । अथ कदाचित् तत्र वने भ्रमन्न् अरण्य- 12 गजः समायातः । तं दृष्ट्वा तो सिंहसुतौ प्रकुपितौ हन्तुकामौ तं प्रति प्रचलितौ । ततस तेन शृगालसुतेनाभिहितम् । अहो। गजो ऽयं युष्मत्कुलशत्रुः । तत् तत्र न गन्तव्यम् । एवम उवा 15 स्वगृहं प्रति प्रधावितः । ताव अपि ज्येष्ठबान्धवभङ्गान निरूसाहतां गतौ । साधु चेदम उच्यते । एकेनापि सुधीरेण । सोत्साहन रणं प्रति । सोत्साहं जायते सैन्यं । भग्ने भङ्गम अवाप्नुयात् ॥३७॥ तथा च। अत एव हि वाञ्छन्ति । भूपा योधान महाबलान् । शूरान धीरान कृतोत्साहान् । वर्जयन्ति च कातरान ॥३॥ अथ हाव् अपि भ्रातरौ गृहं प्राप्य विहसन्तौ पितृभ्यां ज्येष्ठभ्रानृचेष्टितम् ऊचतुः । यत् किलायं गजं दृष्ट्वा दूरतो ऽपि प्रनष्टः । 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy