________________
OR, THE APE AND THE CROCODILE. Book IV.
241 Tale lit: Potter as warrior.
Tale iv: Jackal nursed by lioness.
लग्नः । सो ऽब्रवीत् । देव । युधिष्ठिराभिधः कुलालो ऽहं जात्या। न चायं शस्त्रप्रहारः । किं त्व् अनेककर्परसंकुले प्राङ्गणप्रदेशे मद्यपानविकलः प्रधावन कर्परोपरि पतितः । ततः कर्परप्रहारो ऽयं करालतां गतः। ततो राजा व्यचिन्तयत् । अहो। वञ्चितो ऽहम अनेन राजपुत्रानुकारिणा कुलालेन । तद् दीयताम अस्यार्धचन्द्रः । तथानुष्ठिते कुम्भकारः प्राह । देव । मैवं कुरु ।। पश्य मे समरे हस्तलाघवम् । राजा प्राह । भोः । सर्वगुणनिधिर् भवान् । तद् अपि गम्यताम् । उक्तं च । यतः ।
शूरो ऽसि कृतविद्यो ऽसि । दर्शनीयो ऽसि पुषक। . कुले यस्मिंस त्वम् उत्पनो । गजस् तत्र न हन्यते ॥३४॥ कुलाल आह । कथम् एतत् । राजा कथयति ।
12
॥ कथा ४ ॥ १ अस्ति कस्मिंश्चिद् वनोद्देशे सिंहमिथुनम् । अथ कदाचित् सिंही
पुचड्वयं जनयाम आस । सिंहो ऽपि नित्यं मृगादीन व्यापाद्य । सिंह्या ददाति । अथ कदाचित् तेन वने परिभ्रमता न किंचिद् 15
आसादितम् । भगवान आदित्यो ऽस्तशिखरम उपेतः । अथ तेन स्वगृहम् आगच्छता मार्गे शृगालशिशुः प्राप्तः । स च । बालको ऽयम् । इति कृतानुकम्पेन दंष्ट्रामध्ये विधृत्य यत्नेन 18 जीवन्न आनीय सिंह्याः समर्पितः । ततश च सिंह्याभिहितम् । भोः कान्त । आनीतं किंचिद् भोजनं त्वया । सिंह आह । प्रिये । अद्येनं शृगालशिशुं विना न किंचिद् आसादितम् । अयम् अपि 1 च । स्वजातीयो बालकश च । इति मत्वा मया न हतः । उक्तं च । यतः ।
Ii
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org