________________
240
Book IV. THE LOSS OF ONE'S GETTINGS; Tale ii: Ass without heart and ears. ___Frame-story.
Tale iii: Potter as warrior.
अथ प्रणालपपोन आतमध्यम सिंह सह सचिवमन्यात
अथ शृगालवचनेन जातप्रत्ययः सिंहम तेनैव सह संविभज्याशकितमनास तं भक्षितवान् ॥
अतो ऽहं ब्रवीमि । नाहम् अपि लम्बकर्णो रासभः । इति । तत् । मूर्ख । कपटं कृतं 3 त्वया । परं युधिष्ठिरेणेव सत्यवचनेन विनाशितम् । साध्व् इदम् उच्यते ।
स्वार्थम् उत्सृज्य यो दम्भी। सत्यं ब्रूते स मन्दधीः ।
स स्वार्थाद् भ्रश्यते नूनं । युधिष्ठिर द्वापरः ॥ ३३॥ मकर आह । कथम् एतत् । वानरः कथयति ।
॥ कथा ३॥ अस्ति कस्मिंश्चिद् अधिष्ठाने को ऽपि कुम्भकारः । स कदाचित् . प्रमतम् तीक्ष्णाग्रस्य भग्नभाण्डकपरस्योपरि महता वेगेन धावमानः पपात । ततश च कर्परकोट्या पाटितललाटतटो रुधिराप्लुतशरीरः कथंचिद् उत्थितः । ततश चापथ्यसेवनात कर्पर- 12 प्रहारः करालतां गतः । अथ कदाचिद् दुर्भिक्षपीडिते देशे शुक्षामो ऽसौ कैश्चिद् राजसेवकैः सह देशान्तरं गत्वा राजसेवको बभूव । स च राजा तस्य ललाटे ऽतिकरालाकारं कर्परप्रहारं 15 दृष्ट्वा चिन्तयाम आस । नूनं वीरपुरुषो ऽयं कश्चित् । तेन ललाटे ऽस्य संमुखः प्रहारः । इति विचिन्य मानदानादिभिः सर्वेषाम् अधिकं सप्रसादं तं पश्यति । ते ऽपि राजपुत्रास् तस्य प्रसादा- 18 तिशयं पश्यन्तः परम् ईर्थाधर्म वहन्तो ऽपि राजभयान न किंचिद् ऊचुः । अथान्यस्मिन्न् अहनि क्रियमाणायां वीरसंभावनायां *प्रकल्प्यमानेषु गजेषु संनयमानेषु वाजिषु विलोक्यमानेषु । योबृषु भूभुजा स कुम्भकारः प्रस्तावे पृष्टः । भो राजपुत्र । किं ते नाम । का च जातिः । कस्मिन संयामे प्रहारो ऽयं ते ललाटे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org