SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ 239 OR, THE APE AND THE CROCODILE. Book IV. Tale ii: Ass without heart and ears. Sardi B भक्षयामि । तथापि तद्वियोगं सोढुं न शक्नोमि । तत् प्रसादं कृत्वा तत्रागच्छ । नो चेत् । स्त्रीहत्या ते भविष्यति । मन्मथश च कोपं करिष्यति । उक्तं च । स्त्रीमुद्रां मकरध्वजस्य जयिनी सर्वार्थसंपादनीम् एनां ये प्रविहाय यान्ति कुधियः स्वर्गापवर्गेच्छया। तदोषैर् विनिहत्य ते द्रुततरं नग्नीकृता मुण्डिताः केचिद रक्तपटीकृताश च जटिलाः कापालिकाश चापरे ॥३०॥ तथासौ तहचनप्रत्ययितो भूयो ऽपि तेन सह प्रस्थितः । साध्व् इदम उच्यते। जानन् अपि नरो दैवात् । प्रकरोति विहितम् । कस्मैचित् कर्म किं लोके । गर्हितं रोचते कृतम् ॥३१॥ अवान्तरे धूर्नवचनशतविप्रतारितो रासभः पुनर् अय् उपान्तिकम् 12 आगतः प्राक्सज्जितक्रमेण सिंहेन तत्कालं व्यापादितः । ततश च तं हत्वा शृगालं रक्षपालं विधाय स्वयं स्नानार्थ नद्यां गते सिंहे शृगालेनातिलौल्यात् खरस्य कर्णहृदयं भक्षितम् । स्नात्वा च 15 कृतयथोचितविधिः सिंहो यावद् आगच्छति । तावत् कर्णहृदयरहितं खरं दृष्ट्रा कोपपरीतात्मा गालम आह । आः पाप । किम इदम अनुचितम अनुष्ठितम् । यत् कर्णहृदयभक्षणेनायम् 18 उच्छिष्टतां नीतः । शृगालः सविनयम आह । स्वामिन । मा मैवं वद । कर्णहृदयरहित एवायम् आसीत् । कथम् अन्यथेहागत्य स्वयं त्वाम् अवलोक्य भयाद् गत्वा भूयो ऽप्य् आगतः । अत 21 एवोच्यते। आगतश च गतश चैव । दृष्ट्वासौ त्वां भयानकम् । अकर्णहृदयो मूर्यो । गत्वा यः पुनर् आगतः ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy