________________
Book IV.
THE LOSS OF ONE'S GETTINGS ; Tale ii: Ass without heart and ears.
दूरं गत्वा पपात । गर्दभो ऽपि तं वज्रपातम् इव मन्यमानः । किं किम् इदम् । इति विचिन्तयन् अक्षततनुर् एव दैवात् कथम् अपि तस्माद् अपेतः । यावच् च पश्चाद् अवलोकयति नावत् क्रूरं रक्तान्तनयनम् अतिभयानकम् अदृष्टपूर्व सत्त्वं दृष्ट्वा भयार्तस् त्वरितपदं तद् एव नगरं जगाम । इति ।
Jain Education International
238
9
A
अथ गोमायुना सिंहो ऽभिहितः । भोः । किम् एतत् । दृष्टस् ते विक्रमो मया । अथ सिंहः सविस्मयम् आह । भोः । मया न क्रमः सज्जित आसीत् । तत् किम् अहं करोमि । किं मत्क्रमाक्रान्तो गजो ऽपि गच्छेत् । शृगालः प्राह । संप्रत्य् अपि त्वया सज्जितक्रमेण स्थातव्यम् । यतः पुनर् अप्य् अहम् एनं त्वदन्तिकम् आनेष्यामि । सिंहः प्राह । भद्र । यो मां प्रत्यक्षं दृष्ट्वा गतः स कथं पुनर् अत्र समेष्यति । तद् अन्यत् किंचित् सत्त्वम् आनय । शृगालः प्राह । किं तवानया चिन्तया । अत्रार्थे ऽहम् एव जागरूकस् तिष्ठामि । इत्य् उक्ता शृगालो रासभमार्गेण यावद् गच्छति । तावत् तत्रैव स्थाने चरंम् तिष्ठति । 15 अथ शृगालं दृष्ट्वा रासभः प्राह । भो भागिनेय । भव्यस्थाने त्वयाहं नीतः । यद् दैवान् मृत्युवशं न गतः । तत् कथय । किं तत् सत्त्वम् अतिरौद्रम् ' यस्य वज्रोपमप्रहाराद् अहं मुक्तः । तच् 18 छ्रुत्वा शृगालः प्रहसन्न् आह । माम। सा रासभी विहिताद्भुतशृङ्गारा त्वाम् अवलोक्य सानुराग्रालिङ्गितुम् उत्थिता । त्वं च कातरतया नष्टः । तया पुनर् नश्यतो भवतो ऽवलम्बनार्थं हस्तः 21 प्रसारितः । न चान्यद् अत्र कारणम् । तद् आगच्छ । सा त्वत्कृते प्रायोपवेशन कृतमतिर् एतद् वदति । यदि मे लम्बकर्णो भर्ता न भवति । तद् अहम् अग्निं जलं * वा प्रविशामि । विषं वा
For Private & Personal Use Only
15
12
www.jainelibrary.org