SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 237 OR, THE APE AND THE CROCODILE. Book IV. Tale it: Ass without heart and ears. समीपवर्तिनं यामम् आसाद्य लम्बकर्णनामानं रासभं तडागोपान्ते प्रविरलदूर्वाङ्कुराणि कृच्छ्राद् आस्वादयन्तं दृष्टवान् । ततश च तेन समीपवर्तिना भूत्वाभिहितः । माम । मदीयो ऽयं नमस्कारः ३ संभाव्यताम। चिराद् दृष्टः। कथम एवं दुर्बलतां गतः । लम्बकर्ण आह । भो भगिनीसुत । किं करोमि । रजको ऽतिनिर्दयो माम अतिभारेण पीडयति । घासमुष्टिम् अपि न प्रयच्छति । केवलं ममात्र धूलिमिश्रितानि दूर्वाङ्कुराणि भक्षयतो नास्ति शरीरपुष्टिः । इति । शुगाल आह । माम । यद्य् एवम् । तद् अस्ति *मरकतसदृशशष्पप्रायो नदीसनाथो रमणीयप्रदेशः । तवागत्य : मया सह सुभाषितगोष्ठीसुखम् अनुभवंस तिष्ठ । लम्बकर्ण आह । भो भगिनीसुत । युक्तम उक्तं भवता । परं ग्राम्याः पशवो ऽरण्यचराणां वध्याः । तत् किं तेन भव्यप्रदेशेन । शृगाल आह । 12 मा मैवं वद । मद्भुजपञ्जररक्षितः प्रदेशो ऽसौ । तन नास्ति कस्यचिद् अपरस्य तत्र प्रवेशः । परम अनेनैव भवदीयविधिना रजककर्थितास् तिस्रो रासभ्यो ऽनाथाः सन्ति । ताश च पुष्टिम् 15 आपन्ना यौवनोत्कटा माम् इदम् आहुः । भो मातुलक । त्वं कम अपि ग्रामं गत्वास्मदुचितं पतिम् आनय । तदर्थे च त्वाम् अहम आनेतुम आयातः । अथ शृगालवचनं श्रुत्वा कामपीडिताङ्गो 18 लम्बकर्णस तम उवाच । भद्र । यद्य् एवम् । तद् अधे भव । त्वरितं तत्र गच्छावः । युक्तं चैतत् । नामृतं न विषं किंचिद् । एकां मुक्त्वा नितम्बिनीम्। 21 जीव्यते सङ्गतो यस्या । मियते च वियोगतः ॥२९॥ शृगालेन सहासौ सिंहान्तिकम् उपगतः । सिंहो ऽय् अतिमूर्खतया क्रमान्तिकमाप्तम् अपि खरं दृष्ट्वातिहर्षाद् उन्नुत्य तदुपरि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy