________________
Book IV. THE LOSS OF ONE'S GETTINGS; Frame-story: Ape and crocodile.
तद् अहं तया प्रोक्तस् तव सकाशम् आगतः । तेन मे तया सह त्वदर्थे कलहायमान निश्येयती वेला बभूव । तद् आगच्छ मे गृहम् । तव भ्रातृजाया रचितचतुष्का प्रगुणिर्तवस्त्रं मणिमाfणार्बुचित॑सत्कार॑द्वारदेर्शबद्धवन्दनमालिका सोत्कण्ठा तिष्ठति । मर्कट आह । भो अ मित्र । उचितम् अभिहितं मे भ्रातृपत्न्या । उक्तं च । यतः ।
ददाति प्रतिगृह्णाति । गुह्यम् आख्याति पृच्छति । भुङ्क्ते भोजयते चैव । षड्विधं प्रीतिलचणम् ॥ ११ ॥
परं वनचरा वयम् । युष्मदीयं च जलान्तर् गृहम् । तत् कथं तत्र गन्तुं शक्यते । तस्मात् ताम् अपि भ्रातृपत्नीम् अत्रानय । येन प्रणम्य तत्या आशीर्वादं गृह्णामि । सो ऽब्रवीत् । मित्र । अस्ति समुद्रान्तः सुरम्ये पुलिनप्रदेशे ऽस्मद्गृहम् । तन् मम पृष्ठम् आरूढः सुखेनाकु- 2. तोभयो गच्छ । सो ऽपि तच् छ्रुत्वा सानन्दम् आह । भद्र । यद्य एवम् । तर्हि । त्वर्यताम् । किं विलम्बितेन । एषो ऽहं तव पृष्ठम् आरूढः । तथानुष्ठिते ऽगाधे जलधौ गच्छन्तम् आलोक भयत्रस्तमना वानरः प्रोवाच । भ्रातः । शनैर् गम्यताम् । लाव्यते जलकल्लोले 12 मे शरीरम् । तच् छुला मकरश् चिन्तयाम आस । एष तावन् मत्पृष्ठच्युतो ऽगाधसलिलत्वात् तिलमात्रम् अपि गन्तुं न शक्तः । इति मम वशीभूतः । तत् कथयाम्य् अस्य स्वामिप्रायम् । येनाभीष्टदेवताम् अनुस्मरति । उक्तवांश् च । भद्र । मया त्वं भार्या - 15 वाक्येन विश्वास्य वधार्थम् आनीतः । तत् स्मर्यताम् अभीष्टदेवता । सो ऽब्रवीत् । भ्रातः । किं मयापकृतं तस्या भवतो वा । येन वधोपायश् चिन्तितः । मकर आह । भोः । तस्यास् तावद् अमृतरस फलास्वादनसुस्वादतस् तव हृदयस्य भक्षणे दौहृदः संजातः । 18 तेनैतद् अनुष्ठितम् । ततः प्रत्युत्पन्नमतिर् वानरः प्राह । भद्र । यद्य एवम् किं त्वया *तत्रैव मम न कथितम् । येन जम्बूकोटरान्तरस्थापितं सुस्वादु हृदयं सहैव समानेष्यम् । तद् वृथाहं स्वादुहृदयेन विना शून्यहृदयो ऽानीतः । तच्छ्रुत्वा मकरः सानन्दम् 21 आह । भद्र' । यद्य् एवम् । तद् अर्पय मे तद् एव हृदयम् । येन सा दुष्टपत्नी तद् भक्षयित्वा त्व अनशनान् निवर्तते । अहं च त्वां च तम् एव जम्बूपादपं प्रापयामि ।
230
एवम उक्का निवृत्य तद् एव जम्बूतरुतलम् अगमत् । वानरो ऽपि जल्पित विविध - 24 देवतोपयाचितशतः कथम् अपि जलधितीरम् आसाद्य दीर्घदीर्घतरक्रमचङ्क्रमणेन तम् एव जम्बूपादपम् आरूढश् चिन्तयाम् आस । अहो। मया लब्धाः प्राणाः । अथवा साध्व् इदम् उच्यते ।
Jain Education International
न विश्वसेद् अविश्वस्ते । विश्वस्ते ऽपि न विश्वसेत् । विश्वासाद् भयम् उत्पन्नं । मूलाद् अपि निकृन्तति ॥ १२ ॥
तन् ममैतद् अद्य पुनर्जन्मदिनम् इव संजातम् । मकर आह । भो मित्र । अर्पय मे 30 हृदयम् । येन ते भ्रातृपत्नी तद् भचयित्वानशनाद् उत्तिष्ठति । अथ विहस्य निर्भर्त्समानो मर्कट आह । धिग मूर्ख । विश्वस्तघातक । किं कस्यचिद् धृदयं द्वितीयं भवति । तद् गम्यतां स्वस्थानम् । अस्य बम्बूवृक्षस्याधस्तान् न पुनर् आगन्तव्यम् । इति । उक्तं च ।
For Private & Personal Use Only
27
33
www.jainelibrary.org