________________
12
THE LOSS OF ONE'S GETTINGS. Book IV.
229 Frame-story: Ape and crocodile. ष्यति । तद् यदि मया भार्यया प्रयोजनम् । तत् तस्य हृदयं मे प्रयच्छ । येन तद् भक्षयित्वा जरादिरहिता त्वया सह क्रीडामि । सो ऽब्रवीत् । भद्रे । एकं तावत् प्रतिपन्नधाता सो ऽस्माकम् । अपरं फलदाता । ततो व्यापादयितुं न शक्यते । तत् 3 त्यजामं मिथ्याग्रहम् । उक्तं च।
एका प्रसूयते माता । द्वितीया वाक् प्रसूयते।
वाग्जातम् अधिकं प्रोचुः । सोदर्याद् अपि बान्धवात् ॥६॥ साब्रवीत् । त्वया मवचनं कदाचिन् नान्यथा कृतम् । तन मूनम् एषा वानरी भविष्यति । तदनुरागतस त्वं सकलम् अपि दिनं तत्र गमयसि । ततो मे वाञ्छितं न प्रयच्छसि । अतः कारणान मया सह संगमे प्राप्ते रात्री प्रायो हुतवहज्वालासमं प्रोसिसि । कण्डाश्लेषे चुम्बने च मयि शिथिलताम् आलम्बसे । तन नूनं तव हृदये काचिद् अपरा महिला स्थिता । अथासौ स्वपत्न्याः पुरतः सुदीनम् उवाच ।
मयि त्वत्पादपतिते । किंकरत्वम् उपागते ।
त्वं प्राणवल्लभे कस्मात् । कोपने कोपम् एष्यसि ॥७॥ सापि तवचनम् आकर्याश्रुप्लुतमुखी तम् उवाच ।
सार्धं मनोरथशतैस तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिमभावरम्या। अस्माकम् अस्ति न च किंचिद दहावकाशस तस्मात् कृतं चरणपातविडम्बमाभिः॥८॥
vasa18 अपरम् । यदि ते न वल्लभा सा । तत् किं मया प्रोक्तो ऽपि न व्यापादयसि । अथ स मर्कटः । तत् कस् तेन सह तव लेहः । तत् किंबहुना । यदि तस्य हृदयं न भक्षयामि। तदा तवोपरि प्रायोपवेशनं कृत्वा प्राणांस त्यच्यामि।
21 एवं तस्या निश्चयं ज्ञात्वा चिन्ताकुलितचित्तः स प्राह । अहो । साध्व इदम उच्यते।।
वज्रलेपस्य मूर्खस्य। मारीणां ककटस्य च।
एको बहस तु मीनानां । नीलीमद्यपयोस तथा ॥॥ सत् किं करोमि। कथम् असौ मे वध्यः स्यात् । इति विचिन्त्य वानरपार्श्वम् अगमत् । वानरो ऽपि तं चिरायातं सोगम् द्वालोक्य प्राह । भो मित्र । किम् अद्य चिरपेक्षया समायातो ऽसि । कथं साह्लादं नालपसि । न च सुभाषितादि पठसि । सो ऽब्रवीत् । 27 मित्र । अद्याहं तव भ्रातृजायया निष्ठुरगिराभिहितः । यथा । भोः कृतघ्न । मा मे खं स्वमुखं दर्शय । यतस् त्वं प्रतिदिनं मित्रम् उपजीवसि । म च तस्य स्वगृहद्वारदर्शनेनापि प्रत्युपकारं करोषि । तत् ते प्रायश्चित्तम् अपि नास्ति । उक्तं च।
30 ब्रह्मघ्ने चं सुरापे च । चौरे भपव्रते तथा ।
निष्वतिर विहिता सद्भिः। कृतघ्ने नास्ति निष्कृतिः ॥१०॥ तत् स्वं मम देवरं प्रत्युपकारार्थ गृहम आनय। नो चेत् । खया सह मे परलोके दर्शनम् । 3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org