________________
Book III. THE WAR OF THE CROWS AND THE OWLS. 222
Tale xvi: Frogs ride a serpent. न विहरसि । सो ऽब्रवीत् । भद्र । कुतो मे मन्दभाग्यस्याहारे ऽभिलाषः । यत्कारणम् । अद्य रात्रौ प्रदोष एव मयाहारार्थ विहरमाणेन दष्ट एको मण्डकः । तद्हणार्थ मया क्रमः सज्जितः। सो ऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानाम् अन्तर् अपक्रान्तो न विभावितो मया वापि गतः । तत्सादृश्यमोहितचितेन मया कस्यचिद् ब्राह्मणसूनोर् हृदतट जलान्तःस्थो । ऽङ्गाष्ठो दष्टः । ततो ऽसौ सपदि पञ्चत्वम उपगतः । अथ तत्पित्रा दुःखितेनाहं शप्तः । यथा । दुरात्मन । त्वया निरपराधो यन् मत्सुतो दष्टः । तद् अनेन दोषेण त्वं मण्डूकानां वाहनं भवियसि। तत्प्रसादलब्धजीविकया वर्तिष्यसे । इति । ततो ऽहं युष्माकं वाहनार्थम् आजगाम।
तेन च सर्वमण्डूकानाम् इदम आवेदितम् । ततस तैः 12 प्रहृष्टमनोभिः सर्वैर् एव गत्वा जलपादनानो *द१रराजस्य विज्ञप्तम् । अथासाव् अपि मन्त्रिपरिवृतः । अत्यद्भुतम् । इति मन्यमानः ससंभ्रमं हृदा उत्तीर्य मन्दविषस्य फणप्रदेशम अधि- 15 रूढः । शेषा अपि यथाज्येष्ठं तत्पष्ठोपरि समारुरुहः। किं बहना। तदपरे स्थानम् अनाप्नुवन्तस तस्यानुपदम् एव धावन्ति । मन्दविषो ऽप्य् आत्मपुष्ट्यर्थम् अनेकप्रकारगतिविशेषान अदर्श- 18 यत् । अथ जलपादो लब्धतदङ्गसंस्पर्शसुखम तम आह ।
न तथा करिणा यानं । तुरगेण रथेन वा।
नरयानेन वा यानं । यथा मन्दविषेण मे ॥२१४॥ अथान्येधुर् मन्दविषश छद्मना मन्दं मन्दं विसर्पति । तद दष्ट्रा जलपादो ऽब्रवीत् । भद्र मन्दविष । यथापूर्व किम अद्य न माह्यते । मन्दविषो ऽब्रवीत् । देव । अद्याहारवैकल्यान न मे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org