________________
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale xvi: Frogs ride a serpent.
Tale xvii: Cuckold's revenge
223
वोढुं शक्तिर अस्ति । अथासाव् अब्रवीत् । भद्र । भक्षय क्षुद्रमण्डूकान । तच् छुत्वा प्रहर्षितसर्वगात्रो मन्दविषः ससंभ्रमम अब्रदीत् । ममायम एव *विप्रशापो ऽस्ति । तत् तवानेनाज्ञावचनेन प्रीणितो ऽस्मि । ततो ऽसौ नैरन्तर्येण मण्डूकान भक्षयन कतिपयैर् एवाहोभिर् बलवान संवृत्तः । प्रहृष्टश चान्तलींनम् अवहस्येदम अब्रवीत्। .. मराडूका विविधा ह्य् एत'छलपूर्वोपसाधिताः।
कियन्नं कालम अक्षीणा । भवेयुः खादतो मम ॥२१५॥ जलपादो ऽपि मन्दविषेण कृतकवचनव्यामोहितचित्तः किम् अपि . नावबुध्यते । अत्रान्तरे ऽन्यो महाकायः कृष्णसर्पस् तम् उद्देशम आयातः । तं च मण्डूकैर वाह्यमानं दृष्ट्वा स विस्मयम अगमत् । आह च । वयस्य । यद् अस्माकम अशनम् । तैर् वाह्यसे । 12 विरुवम् एतत् । मन्दविषो ऽब्रवीत् ।
सर्वम एतद् विजानामि । यथावाह्यो ऽस्मि *द१रैः। किंचित्कालं प्रतीक्षे ऽहं । घृतान्धो ब्राह्मणो यथा ॥२१६॥ 15 सो ऽब्रवीत् । कथम् एतत् । मन्दविषः कथयति ।
॥ कथा १७ ॥ अस्ति कस्मिंश्चिद् अधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य 18 भार्या पुंश्चल्य अन्यासक्तमना अजस्रं विटाय सखण्डघृत पूरान कृत्वा भर्तुश चौरिकया प्रयच्छति । अथ कदाचिद् भर्चा दृष्टा । उक्ता च । भने । किम् एतत् परिपच्यते । कुब वाजलं नयसि । 21 कथय सत्यम । सा चोत्पन्नप्रतिभा कृतकवचनैर् भरिम अब्रवीत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org