SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 221 Frame-story. Tale xvi: Frogs ride a serpent. अनेकशास्त्रेष्ठ अप्रतिहतबुद्धिं रक्ताचे विना धीमान। यत्कारणम् । तेन मदीयं यथावस्थितं चित्तं ज्ञातम्। ये पुनस् व अन्ये मन्त्रिणः । ते महामूर्खा मन्त्रिमात्रव्यपदेशोपजीविनोऽतत्त्वकुशलाः । यैर् इदम् अपि म ज्ञातम्। अरितो ऽभ्यागतो भृत्यो । दुष्टस् तत्सङ्गतत्परः। अपसर्प्य सधर्मवान् । नित्योद्वेगी च दूषितः ॥ २०८॥ आसने शयने याने । पानभोजनवस्तुषु। दृष्टादृष्टाः प्रमत्तेषु । प्रहरन्य अरयो ऽरिषु ॥ २० ॥ तस्मात सर्वप्रयत्नेन । त्रिवर्गनिलयं बुधः । आत्मानम आदृतो रक्षेत् । प्रमादाद धि विनश्यति ॥२१०॥ साधु चेदम उच्यते। दुर्मन्त्रिणं कम उपयान्ति न नीतिदोषाः संतापयन्ति कम अपथ्यभुजं न रोगाः। कं श्रीर् न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषयाः परितापयन्ति ॥२११॥ स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टक्रियस्य कुलम् अर्थपरस्य धर्मः। ... विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥२१२॥ vasa 18 तत् । राजन् । असिधाराव्रतं मयाचरितम् अरिसंसर्गात् । इति यद् भवतोक्तम् । तन् मया साक्षाद् एवानुभूतम् । उक्तं च। स्कन्धेनापि वहेच छर्छ । कालम आसाद्य बुद्धिमान् । महता कृष्णसर्पण । मण्डूका बहवो हताः ॥२१३॥ मेघवर्ण आह । कथम् एतत् । स्थिरजीवी कथयति । vasa 21 . ॥ कथा १६ ॥ अस्ति कस्मिंश्चित् प्रदेशे परिणतवया मन्दविषो नाम कृष्णसर्पः । स एवं चितेन समर्थितवान् । कथं नाम मया सुखोपायवृत्त्या वर्तितव्यम् । इति । ततो बहुमण्डूकं हृदम उपगम्याधृतिपरीतम इवात्मानं दर्शितवान् । अथ तथा स्थिते तस्मिन्न उदकप्रान्तगतेनैकेन मण्डूकेन पृष्टः । माम । किम अद्य यथापूर्वम आहारार्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy