SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 219 Tale xv: Lion and wary jackal. Frame-story. अथ सिंहशब्देन सा गुहा प्रतिरवपूर्णदिगाभोगान्यान् अपि दूरस्थान अरण्यजीवांस बासयाम आस । शृगालो ऽपि पला. यमान इमं शोकम् अपठत् । अनागतं यः कुरुते स शोभते । इत्यादि ॥ तद् एवं मत्वा युष्माभिर् मया सहागम्यताम् । इत्य अवधार्यात्मानुयायिपरिवारानुगतो रक्ताचो दूरदेशान्तरं जगाम । अथ रक्ताचे गते स्थिरजीव्य अतिहृष्टमना व्यचिन्तयत्। अहो। कल्याणम् अस्माकम् उपस्थितम् । यद् रक्ताशो गतः । यतः स दीर्घदर्शी । एते च मूढमनसः । ततो मम सुखघात्याः संजाताः। उक्तं च । यतः। न दीर्घदर्शिनो यस्य । मन्त्रिणः स्युर् महीपतेः। क्रमायाता ध्रुवं तस्य । न चिरात् स्यात् परिक्षयः ॥ १९६॥ अथवा साध्व् इदम् उच्यते। मन्त्रिरूपा हि रिपवः । संभाव्यन्ते विचक्षणैः। थे सन्तं नयम उत्सृज्य । सेवन्ते प्रतिलोमतः ॥१९७॥ एवं विचिन्त्य स्वकुलाय *एकैकां वनकाष्ठिकां गुहादीपनार्थ दिने दिने प्रक्षिपति । न 15 च ते मूर्खा उलूका जानन्ति । यद् एष कुलायम अस्मदाहाय वृद्धिं नयति । अथवा साध्व इदम् उच्यते। अमित्रं कुरुते मित्र । मित्रं वष्टि हिनस्ति यः। मित्राणि तस्य नश्यन्ति । अमित्रं नष्टम् एव च ॥१९८॥ अथ कुलायव्याजेन दुर्गद्वारे कृते काष्ठनिचये संजाते सूर्योदये ऽन्धतां प्राप्तेषूलूकेषु स्थिरजीवी शीघ्रं गत्वा मेघवर्णम् आह । स्वामिन् । दाहसाध्या कृता मया रिपुगुहा । तत् 21 सपरिवारः समेत्यूकैकां वनकाष्ठिकां ज्वलन्तीं गृहीत्वा गुहाद्वारे ऽस्मत्कुलाये प्रक्षिप । येन सर्वशत्रवः कुम्भीपाकनरकप्रायेण दुःखेन नियन्ते । तच् छ्रुत्वा प्रहृष्टो मेघवर्ण आह । तात । कथयात्मवृत्तान्तम् । चिराद् दृष्टो ऽसि । स आह । वत्स । नायं वक्तव्यस्य कालः। । कदाचित तस्य रिपोः कश्चित् *प्रणिधिर् ममेहागमनं निवेदयिष्यति । तज्ज्ञानाद् अन्धो ऽन्यवापसरणं करिष्यति । तत् त्वर्यतां त्वर्यताम् । उक्तं च। ' शीघ्रकृत्येषु कार्येषु । विलीयो नरः। तत् कृत्यं देवतास तस्य । को५. विघ्नन्य असंशयम् ॥१९॥ तथा च। यस्य तस्य हि कार्यस्य । फलित विशेषतः । क्षिप्रम् अक्रियमाणस्य । कालः पिबति तद्रसम् ॥२००।। तद् *गृहायातस ते हतशचोः सर्व निर्याकुलतया कथयिष्यामि । 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy