SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Book III. THE WAR OF THE CROWS AND THE OWLS. 218 Frame-story. Tale xv: Lion and wary jackal. अनागतं यः कुरुते स शोभते स *शोचते यो न करोत्य अनागतम् । वने वसन्न् एव जराम उपागतो बिलस्य वाचा न कदापि हि श्रुता ॥१९४॥ कथम् एतत्। रक्ताक्षः कथयति । vamsa ॥ कथा १५ ॥ अस्ति कस्मिंश्चिद् वनोद्देशे खरनखरो नाम सिंहः । कदाचिद् इतश चेतश च परिभ्रमन शुन्क्षामकण्ठो न किंचिद् अपि सत्तम आससाद । ततो ऽस्तसमये महती गिरिगुहाम आसाद्य प्रविष्टश . चिन्तयाम आस । नूनम् एतस्यां गुहायां रात्रौ केनापि सत्वेनागन्तव्यम्। तन निभृतो भूत्वा तिष्ठामि । अथ गुहास्वामी दधिमुखो नाम शृगालो द्वारि *फूत्कर्तुम आरेभे । अहो *बिला३ । 12 अहो *बिला३ । इत्य उक्त्वा तूष्णीभूय भूयो ऽपि तथैव प्रत्यभाषत । भोः । किं न स्मरसि । यन मया त्वया सह समयः कृतो ऽस्ति । यन मया बाह्यायातेन त्वं वक्तव्यः । त्वया चाहम 15 आकारणीयः । इति । तद् अद्य मां नाह्वयसि । ततो ऽहं द्वितीयं तद एव बिलं यास्यामि । यत् पश्चान माम् आहास्यति । अथ तच् छ्त्वा सिंहश् चिन्तितवान् । नूनम् अस्यायातस्यैषा 18 गुहा सदा समाहानं करोति । परम अद्य मद् भयान न किंचिद् ब्रूते । युक्तं चैतत् । भयसंवस्तमनसां । हस्तपादादिका क्रिया। 21 प्रवर्तते न वाणी च । वेपथुश चाधिको भवेत् ॥१९५॥ तद् अहम् अस्याहानं करोमि । येन तदनुसारेण प्रविष्टो ऽयं मे भोज्यताम् एति । एवं संप्रधार्य सिंहस् तस्याहानम् अकरोत् । 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy