________________
Book I. THE ESTRANGING OF FRIENDS;
Frame-story: Lion and bull.
ar
ups 6
15
सरुषि नतिस्तुतिवचनं । तदभिमते प्रेम *तविषि द्वेषः।
*दान उपकारकीर्तनम् । अमन्त्रमूलं वशीकरणम् ॥५४॥ किंतु। क्रियाधिकं वा वचनाधिकं वा
ज्ञानाधिकं वापि नरं विदित्वा । तं ताव अवस्थास्व अनुसंदधीत ज्ञात्वाबलं तं परिवर्जयेच् च ॥५५॥ वचस तत्र प्रयोक्तव्यं । यत्रोक्तं लभते फलम् । स्थायीभवति चात्यन्तं । रागः शुक्लपटे यथा ॥५६॥ नाक्षातबलवीर्येषु । पुमान् किंचित् प्रयोजयेत्।
न धाजते प्रयुक्तापि । ज्योत्स्ना हिमगिरी यथा ॥ ५७ ॥ करटक आह । यद्य एवम् अभिमतम् । तद् गच्छ राजपादान्तिकम् । शिवास ते पन्थानः सन्तु । यथाभिप्रेतम् अनुष्ठीयताम्।
12 अप्रमादश च कर्तव्यस् । त्वया राज्ञः समाश्रये ।
त्वदीयस्य शरीरस्य । वयं भाग्योपजीविनः ॥५॥ सो ऽपि तं प्रणम्य पिङ्गलकाभिमुखं प्रस्थितः।
अथागच्छन्तं दमनकम अवलोक्य पिङ्गलको द्वाःस्थम अब्रवीत्। अपसार्यतां वेत्रलता। अयम् अस्माकं चिरंतनो मन्त्रिपुत्रो दमनको व्याहतप्रवेशः । तत् प्रविशत्य एष । द्वितीयमण्डलमागीति । अथ प्रविश्य दमनको निर्दिष्टे चासने पिङ्गलकं प्रणम्योपविष्टः । स तु 18 तस्य नखकुलिशालंकृतं दक्षिणपाणिम् उपरि दत्त्वा मानपुरःसरम उवाच । अपि भवतःशिवम् । कस्माच् चिराद् दृष्टो ऽसि । दमनक आह । यद्य् अपि न किंचित् प्रयोजनं देवपादानाम् अस्माभिः । तद् अपि प्राप्तकालं च वक्तव्यम् । यतो न खल राज्ञाम 21 उपयोगकारणं किंचिन न भवति । उक्तं च ।
दन्तस्य निष्कोषणकेन राजन कर्णस्य कण्डूयनकेन चापि । तृणेन कार्य भवतीश्वराणां किं नाम वाक्यानवता नरेण ॥१९॥
upa तथा च । यतो वयं देवपादानाम अन्वयागता भत्या आपत्स्व अप्य अनगामिनः । नास्या-27 कम अन्या गतिर् अस्ति । उक्तं च।
स्थानेष्व एव नियोज्यानि । भृत्याश् चाभरणानि च। न हि चूडामणिः पादे । प्रभवामीति बध्यते ॥ ६०॥ अनभिज्ञो गुणानां यो। न मृत्यैः सोऽनुगम्यते । धनाढ्यो ऽपि कृत्वीनो ऽपि । कमायातो ऽपि भूपतिः ॥६१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org