SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ or, TIIE LION AND TIIE BULL. Book I. Frame-story: Lion and bull. संमतो ऽहं विभोर नित्यम् । इति मत्वा व्यतिव्रजेत् । न कृच्छ्रेष्व अपि मर्यादा । स भवेद राजवल्लभः ॥४१॥ *द्विषट्टेषपरो नित्यम् । इष्टानाम् इष्टकर्मकृत्। यो नरो नरनाथस्य । स भवेद राजवल्लभः ॥४२॥ न कुर्यान नरनाथस्य । यो रिभिः सह संगतिम् । न निन्दा न विवादं च । स भवेद् राजवल्लभः ॥४३॥ यो रणं शरणं यद्वन् । मन्यते भयवर्जितः । प्रवासं स्वपुरावासं । स भवेद राजवल्लभः ॥४४॥ द्यूतं यो यमदूताभं । मद्यं हालाहलोपमम् । पश्येद् दारान् यथाकारान् । स भवेद् राजवल्लभः ॥४५॥ करटक आह । अथ भवांस तत्र गत्वा प्रथमम् एव किं वक्ष्यति । तत् तावद् उच्यताम् । सो ऽब्रवीत्। उत्तराद् उत्तरं वाक्यम् । उत्तराद् एव जायते। मुवृष्टिगुणसंपन्नाद् । बीजाद बीजम वापरम् ॥४६॥ अपि च । अपायसंदर्शनजां विपत्तिम उपायसंदर्शनजां च सिद्धिम्। मेधाविनो नीतिगुणप्रयुक्तां पुरः स्फुरन्तीम इव दर्शयन्ति ॥४७॥ upa कल्पयति येन वृत्तिं । सदसि च सद्भिः प्रशस्यते येन । स गुणस तेन गुणवता । विवर्धनीयश् च रच्यश् च ॥४८॥ उतं च। अपृष्टस तस्य तद् ब्रूयाद् । यस्य नेच्छेत् पराभवम्। एष एव सतां धर्मों। विपरीतस ततो ऽन्यथा ॥४९॥ करटक आह । दुराराध्या हि राजानः । उक्तं च । भोगिनः कञ्चुकासक्ताः । क्रूराः कुटिलगामिनः । सुरौद्रा मन्त्रसाध्याश् च । राजानः पन्नगा व ॥ ५० ॥ विषमाः कठिनात्मानो। *नीचा *नीचजनाश्रयाः । हिंस्रैर् अनुगता नित्यं । राजानः पर्वता व ॥५१॥ नखिनां च नदीनां च । शृङ्गिणां शस्त्रधारिणाम । विश्वासो नोपगन्तव्यः । स्त्रीषु राजकुलेषु च ॥ २॥ सो ऽब्रवीत् । सत्यम् एतत् । किं तु। यस्य यस्य हि यो भावस । तस्य तस्य हि तं नरः। अनुपविश्य मेधावी। क्षिप्रम् आत्मवशं नयेत ॥५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy