SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 211 THE WAR OF THE CROWS AND THE OWLS. Book III. Tate xii: Cuckold wheelwright. भूत्वा स्थितः । एतस्मिन्न अन्तरे स देवदत्तः समागत्य तत्र शयन उपविष्टः । तं दृष्ट्वा कोपाविष्टचित्तो रथकारो व्यचिन्तयत् । किम् एनम उत्थाय हन्मि । अथ हेलयैव प्रसुप्तौ हाव अपि व्यापादयामि । यद् वा । पश्यामि तावद् अस्याश चेष्टितम् । शृणोम्य अनेन सहालापान । एतस्मिन् अन्तरे सा गृहद्वारं निभृतं *पिधाय शयनतलम् आरूढा।। अथारोहन्या रथकारशरीरे पादो विलग्नः । ततो व्यचिन्तयत् । नूनम् एतेन दुरात्मना रथकारेण मत्परीक्षार्थ भाव्यम् । तत् स्त्रीचरितविज्ञानं किम् अपि करोमि । एवं तस्याश चिन्त- " यन्या देवदतः स्पर्शोत्सुको बभूव । अथ तया कृताञ्जलिपुटयाभिहितम । भो महानुभाव । मे शरीरं त्वयास्पर्शनीयम् । स आह । यद्य् एवम् । तर्हि । किम् अहं त्वयाहतः । साब्रवीत् । भोः । अहं 12 प्रत्यूषे देवतादर्शनार्थ चण्डिकायतनं गता। तत्राकस्मिकी खे वाचा संजाता। पुत्रि । किं करोमि । भक्तासि मे त्वम् । परं षण्मासा. भ्यन्तरे विधिनियोगाद् विधवा भविष्यसि । ततो मयाभिहितम् । 15 भगवति । यथा त्वम आपदं वेत्सि । तथा प्रतीकारम अपि जानासि । तद् अस्ति कश्चिद् उपायः । येन मे पतिः शतसंवासरजीवी भवति । ततस् तयाभिहितम् । अपि चास्ति । यतस् 18 तवायत्तः स प्रतीकारः । तच् छ्रुत्वा मयाभिहितम् । देवि । यदि मम प्राणैर् भवति । तद् आदिश । येन करोमि । अथ देव्याभिहितम । यद्य *अन्येन पुरुषेण सहकस्मिज शयनीय आरुह्या- 21 लिङ्गनं करोषि । तत् तव भर्तुः सक्तो ऽपमृत्युर् अस्य संचरति । भर्ता च पुनर् वर्षशतं जीवति । तेन त्वं मयाभ्यर्थितः। तद् यत् किंचित् कर्तुमनाः । तत् कुरु । न हि देवतावचनम् अन्यथा 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy