________________
210
Book III. TIIE WAR OF THE CROWS AND TIIE OWLS.
Tale xii: Cuckold wheelwright.
॥ कथा १२ ॥ अस्ति कस्मिंश्चित् स्थाने रथकारः । तस्य भार्या पुंश्चली जनापवादसंयुक्ता च । सो ऽपि तस्याः परीक्षणार्थम अचिन्तयत् । कथं ४ मयास्याः परीक्षणं कर्तव्यम् । उक्तं च । यतः ।
यदि स्यात पावकः शीतः । प्रोष्णो वा शशलाञ्छनः ।
स्त्रीणां च तत् सतीत्वं स्याद । यदि स्याद् दुर्जनो हितः ॥१७५॥ 6 . जानामि चैनां लोकवचनाद असतीम् । उक्तं च ।
यच् च वेदेषु शास्त्रेषु । न दृष्टं न च संश्रुतम्।।
तत् सर्वं वेति लोको ऽयं । यत् स्याद् ब्रह्माण्डमध्यगम् ॥१७६॥ " एवं संप्रधार्य भार्याम अवोचत् । प्रिये । प्रभाते ऽहं यामान्तरं यास्यामि । तत्र दिनानि कतिचिल लगिष्यन्ति । तत् त्वया किंचित् पाथेयं मम योग्यं विधेयम् । तस्य वचनं श्रुत्वा हर्षित- 12 चित्ता सोत्सुका सर्वकार्याणि संत्यज्य सिद्धम् अन्नं घृतशर्कराप्रायम अकरोत् । अथवा साध्व् इदम उच्यते । _ दुर्दिवसे घनतिमिरे । दुःसंचारेषु नगरमार्गेषु।
पत्युर् विदेशगमने । परमसुखं जघनचपलायाः ॥१७७॥ ar अथासौ प्रत्यूष उत्थाय स्वगृहान निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसितवदनाङ्गसंस्कारकर्म कुर्वाणा कथंचिद् दिनम् 18 अत्यवाहयत् । अथ पूर्वपरिचितविटगृहे गत्वा तं प्रत्य उक्तवती।। स दुरात्मा मे पतिर् यामान्तरं गतः । तत् त्वयास्मद्गृहे प्रसुप्ते जन आगन्तव्यम् । तथानुष्ठिते स रथकारो ऽरण्ये दिनम् अति- 21 वाह्य प्रदोषे स्वगृहे उपहारेण प्रविश्य शय्याधस्तले निभृतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org