________________
Book III. THE WAR OF THE CROWS AND THE OWLS. 212 Tale xii: Cuckold wheelwright.
Frame-story.
भविष्यति । इति निश्चयः । ततो ऽन्तासविकाशमुखः स तदुचितम आचचार।
सो ऽपि रथकारो मूर्खस तस्या वचनम् आकर्ण्य पुलकि- 8 ततनुः शय्याधस्तलान निष्क्रम्योवाच । साधु । पतिव्रते । साधु । कुलनन्दनि । अहं दुर्जनवचनशङ्कित हृदयस् त्वत्परीक्षानिमितं यामव्यानं कृत्वात्र खदाधस्तले निभृतं लीनः स्थितः । तद् एहि । । आलिङ्ग माम् । एवम उक्त्वा ताम आलिङ्गय स्कन्धे कृत्वा तम् अपि देवदतम उवाच । भो महानुभाव । मत्पुण्यैस त्वम् इहागतः । त्वत्प्रसादान मया प्राप्तं वर्षशतप्रमाणम् आयुः । तत् ' त्वम् अपि स्कन्धे समारुह । अनिच्छन्तम अपि तं बलात् स्कन्ध आरोपितवान् । ततश च नृत्यन सकलस्वजनगृहद्वारेषु बभ्राम॥
अतोऽहं ब्रवीमि । प्रत्यक्षे ऽपि कृते *दोषे । इत्यादि । तत् सर्वथा मूलोखाता वयं 12 विनष्टाः स्मः । मुष्टु खल्व् इदम् उच्यते ।
मित्ररूपा हि रिपवः । संभाव्यन्ते विचक्षणैः।
ये हितं वाक्यम् उत्सृज्य । विपरीतोपसेविनः ॥१७८॥ तथा च । सन्तोऽप्य अर्था विनश्यन्ति। देशकालविरोधिताः।
अप्राज्ञान मन्त्रिणः प्राप्य । तमः सूर्योदये यथा ॥१७९॥ ततस तद्वचो ऽनादृत्य सर्वे ते स्थिरजीविनम् उत्विष्य स्वदुर्गम् आनेतुम् आरब्धाः। 18 अथानीयमानः स्थिरजीव्य् आह । देव । अद्याकिंचित्करेणैतदवस्थेन किं मयोपसंगृहीतेन । यत्कारणम् । इच्छामि दीप्तं वह्निम् अनुप्रवेष्टुम् । तद् अर्हसि माम् उद्धर्तुम् अमिदानेन । इति । अथ रक्ताक्षस तस्यान्तर्गतभावं ज्ञात्वाब्रवीत् । किमर्थम् अग्रिपतनम् इच्छसि । सो 21 ऽब्रवीत् । अहं *भवदर्थ माम आपदां मेघवर्णेन प्रापितः। तद् इच्छामि तेषां *वैरयातनार्थम् उलूकत्वम्। इति। तच च श्रुत्वा राजनीतिकुशलो रक्ताक्षः प्राह । भद्र । कुटिलस त्वं कृतकवचनचतुरश् च । तत् त्वम् उलूकयोनिगतो ऽपि स्वकीयाम् एव वायसयोनिं 24 बहु मन्यसे । श्रूयते चैतद् आख्यानकम्।
सूर्य भर्तारम् उत्सृज्य । पर्जन्यं मारुतं गिरिम्।
स्वयोनि मूषिकी प्राप्ता । स्वजातिर दुरतिक्रमा ॥१८॥ सोऽब्रवीत् । कथम् एतत् । रक्ताक्षः कथयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org