SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 204 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale viii: Self-sacrificing dove. 12 अद्यप्रभृति देहं स्वं । सर्वभोगविवर्जितम् । तोयं स्वल्पम् इव *ग्रीष्मे । शोषयिष्याम्य अहं ततः ॥१५५॥ शीतवातातपसहः । कृशाङ्गो मलिनस तथा। उपवासैर् बहुविधैश । चरिष्ये धर्मम उत्तमम् ॥१५६॥ नतो *यष्टिं शलाकां च । जालकं पञ्जरं तथा । बभञ्ज लुब्धको दीनां । कपोती च मुमोच ताम् ॥१५७॥ लुब्धकेन ततो मुक्ता । दृष्ट्राग्नी पतितं पतिम् । कपोती विललापार्ता । शोकसंबस्तमानसा ॥१५॥ न कार्यम अद्य मे नाथ । जीवितेन त्वया विना। दीनायाः पतिहीनायाः । किं नार्या जीविते फलम ॥१५९॥ मानो दर्पस व अहंकारः । कुलपूजा च बन्धुषु । दासभृत्यजनेष्व् आज्ञा । वैधव्येन प्रणश्यति ॥१६०॥ एवं विलय बहशः । कुपणं भशदुःखिता। पतिव्रता सुसंदीप्तं । तम एवाग्निं विवेश सा ॥१६१॥ ततो दिव्याम्बरधरा । दिव्याभरणभूषिता। भर्तारं सा विमानस्थं । ददर्श च कपोतिका ॥१६२॥ सो ऽपि दिव्यतनुर् भूत्वा । यथार्थम् इदम अब्रवीत् । अहो ममानुगच्छन्या । कृतं साधु शुभे त्वया ॥१६३॥ तिम्रः कोट्यो ऽर्धकोटी च । यानि रोमाणि मानवे । नावकालं वसेत् स्वर्गे। भर्तारं यानुगच्छति ॥१६४॥ एवं हर्षाविष्टस् तां विमानम् आरोय परिष्वज्य च सुखेन तस्थौ । 21 लुब्धको ऽपि परमनिर्वेदं कृत्वा मरणाभिमुखो महद् वनं विवेश। तत्र दावानलं दृष्ट्वा । निविष्टो विरताशयः । निर्दग्धकल्मषो भूत्वा । देववद् दिवि मोदते ॥१६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy